________________
[ पा० ४. सू० ७६-८१.]
इत्ययमादेशो भवति । तथैवोदाहृतम् । घुटीत्येव ? सुपथी, बहुपथी कुले,
पथः पश्य ।। ७८ ।।
श्रोसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
१२६
न्या० स०-- -थो स्थिति - अनेकवर्णत्वात् सर्वस्य प्राप्तौ 'थः' इति स्थानिविशेषार्थमृभुक्षिन्निवृत्त्यर्थं च ॥ ७८ ॥
इन् ङी-स्वरे लुक् ।। १. ४. ७६ ।।
पथ्यादीनां नकारान्तानां ङीप्रत्यये अघुट्स्वरादौ परे 'इन्' अवयवो लुक् भवति । सुपथी स्त्री कुले वा, पंथः पथा, पथे, पथ: २, पथोः २, पथाम्, पथि; एवम् - सुमथी स्त्री कुले वा, मथः, मथा अनुभुक्षी सेना कुले वा ऋभुक्षः, ऋभुक्षा । प्रभेदनिर्देशः सर्वादेशार्थः ।। ७६ ।।
5
न्या० स० -- इन् ङीत्यादि । घुट्स्वरादाविति ङीसाहचर्याद् प्रधुटीति विशेषणं 10 ज्ञेयम्, तर्हि स्यादिमन्तरेणापि प्राप्नोतीति न वाच्यम्, स्याद्यधिकाराश्रयरणात्, ङीग्रहणस्य वैयथ्यं प्रसङ्गाच्च निमित्तविशेषानुपादाने घुटीत्यधिकारस्य निर्णीतत्वात् 'स्वरे' इति निमित्तविशेषोपादानाद् घुटि च पथ्यादीनामिनो विशेषविधिविषयत्वादघुट्स्वरे इत्यवसीयते । सुपथी स्त्री कुले वेति व्युत्पत्तिपक्षे सुभ्रवादित्वात्, उरणादीनामव्युत्पन्नानि नामानीति पक्षाश्रयणाद् इन्नन्तत्वाभावादिनः कच् न भवति, समासान्तविधेरनित्यत्वाद् 15 "ऋक्पू: ०' [ ७. ३. ७६ ] इत्यपि न, नान्तत्वात् “ स्त्रियां नृतो० " [ २. ४. १. ] इति ङी ।। ७६ ।
"
वोशनसो नश्चामन्त्र्ये सौ ॥ १. ४. ८० ।।
ग्रामन्त्र्येऽर्थे वर्तमानस्योशनस् - शब्दस्य सौ परे नकारो लुक् चान्तादेशौ वा भवतः । हे उशनन् !, हे उशन ! पक्षे हे उशनः ! I आमन्त्र्य इति 20 किम् ? उशना । साविति किम् ? हे उशनसौ ! ।। ८० ।।
न्या० स० -- वोशनस इत्यादि । यदा सर्वविधिभ्यो लोपः इति न्याय श्राश्रीयते तदा से: स्थानिवद्भावेन कार्यम् ॥ ८० ॥
उतोऽनडुच्चतुरो वः ॥ १. ४. ८१ ॥
'अनडुह,, चतुर्' इत्येतयोरामन्त्रयेऽर्थे वर्तमानयोरुकारस्य सौ परे 'व' 25 इति सस्वरवकारादेशो भवति । हे अनड्वन् !, हे प्रियानड्वन् !, हे प्रति