SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १२८ ] बृहवृत्ति-लघुन्याससंवलिते [पा० ४. सू० ७७-७८.] प्राप्नोतीति कृत्वात्र नान्तत्वमस्त्येवेति प्राप्नोत्यात्वम्, सत्यम्-नान्तेति व्यावृत्तिबलादेव न भवति, अन्यथा यत्र कुत्रापि नलोपस्तत्र सर्वत्राप्यमीषां पथ्यादीनां ध्वनीनामनेनाऽऽत्वलक्षणे स्यादिविधौ कर्तव्ये "ण-षमसत्परे०" [ २. १. ६०. ] इति न्यायेन नलोपस्यासिद्धत्वे नान्तत्वसद्भावादनेनात्वं भवेदेवेत्यत्र सूत्रे नान्तनिर्देशोऽनर्थक: स्यात्, तस्माद् यत्र साक्षान्नान्तत्वममीषां भवति तत्रेदं प्रवर्ततेऽन्यत्र तु व्यावृत्तिरिति सर्वं समीचीनम् । 5 तहि “दीर्घड्याब" [ १. ४. ४५. ] इति सूत्रेण सेलुक् कस्मान्न भवति? यतोऽयमपि स्यादिविधिः, स्यादिविधौ च नलोपोऽसन् भवतीति, सत्यम्-“दीर्घङयाब" [१.४.४५.] इत्यत्र सावधारणं व्याख्येय न्-व्यञ्जनान्तादेव यदि सिर्भवतीति, विहितविशेषणाद् वा यत्र एभ्यः परः सिविहितो भवति तत्र लुग भवति, अत्र त्वीकारान्ताद् विहितो न व्यञ्जनान्तादिति । तहि 'या सा' इत्येवमादिषु सेलुं न प्राप्नोति, सत्यम्-यत्रतेषां मध्यादे-10 कस्माद् विहितो भवति, कार्यान्तरेषु च कृतेषु पश्चादेतेषामेव मध्येऽन्यतमस्मात् परो भवति, तत्रापि भवति, तेनानयोः प्रयोगयोर्व्यञ्जनान्तात् परो विहितः कार्यान्तरेषु च सत्सु विद्यते पाबन्तादिति सेलुग् भवत्येव । 'यः सः' इत्यनयोस्तु व्यञ्जनान्ताइ विहितोऽस्ति, परम् “पा द्वरः" [२. १. ४१. ] इत्यादिकार्येषु कृतेषु सत्सु पश्चादमीषां मध्यादेकस्मादपि परो नास्तीति न सेलुक् । बहुऋभुक्षा इति-"ऋ-लति ह्रस्वो वा" [ १. २. २. ] इति 15 ह्रस्वः, स्त्रीत्वाभावादितः कच् न भवति । हे सुपथिन् !, हे सुपथि ! इति-"क्लीबे वा" [ २. १. ६३. ] इत्यनेन वा नस्य लोपः ।। ७६ ।। एक ॥ १. ४. ७७ ॥ पथ्यादीनां नकारान्तानामिकारस्य घुटि परे आकारो भवति । पन्थाः, पन्थानौ, पन्थानः, पन्थानम्, पन्थानौ; मन्थाः, मन्थानौ, मन्थानः, मन्थानम्,20 मन्थानौ; ऋभुक्षाः, ऋभुक्षाणौ, ऋभुक्षाणः, ऋभुक्षाणम्, ऋभुक्षाणौ; सुपन्थानि वनानि “पूजास्वतेः प्राक् टात् [७. ३. ७२.] इति समासान्तप्रतिषेधः, बहुमन्थानि कुलानि; अनुभुक्षाणि बलानि, सुपन्थानौ, परममन्थानौ। नकारान्तनिर्देशादेरभावाच्चेह न भवति-पन्थानमिच्छति क्यन् क्विप्-पथ्यौ, पथ्यः, पथ्यम् । घुटीत्येव ? सुपथी वने, पथिभ्याम्; सुमथी25 कुले, मथिभ्याम् ।। ७७ ।। न्या० स०–एरिति । पथ्यादीनामेकारस्यासम्भवाद् ‘ए:' इति इकारात् षष्ठीत्याह-इकारस्येति ।। ७७ ॥ थो न्थ् ॥ १. ४. ७८ ॥ 'पथिन्, मथिन्' इत्येतयोर्नकारान्तयोस्थकारस्य स्थाने घुटि परे 'न्थ्' 30
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy