________________
[ पा० ४. सू० ८६. ]
१३२ ]
बृहद्वृत्ति - लघुन्याससंवलिते
इत्यत्र घकारस्य दीर्घो न भवति । घुटीत्येव ? चर्मरणा, वारिणी, मधुनी । शेष इत्येव ? हे राजन् ! हे सीमन् ! ।। ८५ ।।
न्या० स०-नि दीर्घ इति । राजेति - स्यादिविधौ कर्तव्ये नलोपस्यासत्त्वात् प्रथमं लुक् न । सुग्ध्नयतेः क्विबिति - स्र ुचो हन्ति "अचित्ते टक्" [ ५. १.८३ ] अधिकरणे तु " स्थादिभ्यः कः" [ ५. ३. ८२. ] "गम-हन० " [ ४. २.४४ ] इत्यलुक्, “हनो 5 ह्रो घ्नः” [ २. १. ११२. ] दीर्घविधित्व द् णेः स्थानिवद्भावो न भवति, सौ “नाम्नो नोनह्नः” [ २.१.६१ ] इति नलोपः, ततः " पदस्य" [ २ १ ८६ ] इति घलोपः ।। ८५ ।
न्स्-महतोः॥ १. ४. ८६ ॥
न्सन्तस्य महच्छब्दस्य च संबन्धिनः स्वरस्य शेषे घुटि परे दीर्घो 10 भवति । श्रेयान्, श्रेयांसौ, श्रेयांसः, श्रेयांसम्, श्रेयांसौ, परमश्रेयान् प्रतिश्रेयान्, प्रियश्रेयान्, श्रेयांसि यशांसि, सर्पीषि, धनूंषि, प्रियपुमांसि कुलानि ; . महान्, महान्तौ, महान्तः, महान्तम्, महान्तौ परममहान्, प्रतिमहान्, प्रियमहान्, महान्ति । महत्साहचर्याच्छुद्धधातोः क्विबन्तस्य न भवति - सुहिंसौ, सुहिंसः, सुकंसौ, सुकंसः । नामधातोस्तु भवत्येव श्रेयस्यति महत्यतीति 15 क्विपि - श्रेयान् महान् । घुटीत्येव ? श्रेयसः, महतः पश्य; श्रेयसी महती कुले । शेष इत्येव ? हे श्रेयन् !, हे महन् ! ।। ८६ ।।
न्या० स०---स्-महतोरिति प्रत्र औरणादिको "दुहिवृहि०" [ उणा० ८८४. ] इत्यनेन कतृप्रत्ययान्तो व्युत्पन्नोऽव्युत्पन्नो वा महच्छब्दो ग्राह्यः, यस्तु शत्रन्तस्तस्य महन्नित्येव न त्वनेन दोर्घः, लक्षण-प्रतिपदोक्तयोः ० * इति न्यायात् यतः शतृप्रत्य- 20 यान्तं महदिति रूपं लाक्षणिकं कतृप्रत्ययान्तं तु प्रतिपदोक्तम् एतच्च वत्स ऋषभावूचतुः । सर्पोषीति - श्रत्र "न्स्- महतो " [ १४. ८६. ] इत्यनेन दीर्घलक्षणे स्यादिविधौ विधातव्ये “रण-षमसत् परे०” [ २.१.६० ] इत्यनेन षत्वमसत् । महत्साहचर्यादिति-'महत्' इति शुद्ध धातुः क्विबन्तो न सम्भवति, तत्साहचर्यादन्यस्यापि शुद्धधातो: क्विबन्तस्य न भवति, नामघातुस्तु महदपि क्विबन्तः संभवति, अतोऽन्यस्यापि नामधातो: क्विबन्तस्य 25 भवति, महच्छब्दस्तावन्नामत्वं न व्यभिचरति, तत्संनियोगनिर्दिष्टस्य न्सन्तस्यापि नामत्वाव्यभिचारिण एव ग्रहणम् । महती कुले इति - श्रेयसः पश्य, श्रेयसी कुले इति तु न दर्श्यते, न्सन्तत्वाभावेन द्वयङ्गविकलत्वात् ॥ ८६ ॥