________________
[पा० ४. सू० ७०-७२.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ १२५
कुलानि । घुटीत्येव ? प्राचः पश्य ।। ६६ ।।
दुदितः ॥ १. ४. ७० ॥
ऋदित उदितश्च धुडन्तस्य तत्सम्बन्धिन्यसम्बन्धिनि वा घुटि परे धुटः प्राक् स्वरात् परो नोऽन्तो भवति । [ऋदितः-] कुर्वन्, अधीयन्, महान्, सुदन् बालः । उदितः-चक्रिवान्, विद्वान्, गोमान्, श्रेयान् । घुटीत्येव ? 5 गोमाता । पृथग्योगो भ्वादिव्युदासार्थ:-सम्राट् ।। ७० ।।
न्या० स०-ऋदुदीत्यादि । पृथग्योगो भ्वादिव्युदासार्थ इति-अयमभिप्रायः"उदितः स्वरान्नोऽन्तः" [४.४.६८.] इत्यत्र धात्वधिकाराद भ्वादेरुदितः "उदितः स्वरान्नोऽन्तः" [४. ४. ६८.] इत्यनेनैव सिद्धत्वादत्र उदितः पृथगारम्भादुदितोऽम्वादेरेव तत्साहचर्यादितोऽपि अन्वादेरेवेति नियमात् ‘सम्राट्' इत्यादौ न भवति ।। ७० ॥ 10
युञोऽसमासे ॥ १. ४. ७१ ॥
"युजं पी योगे" इत्यस्यासमासे धुडन्तस्य धुटः प्राग् घुटि परे नोऽन्तो भवति । युङ्, युजौ, युञ्जः; युञ्जम्, युञ्जि कुलानि, ईषदपरिसमाप्तो युङ–बहुयुङ, बहुयुजौ, बहुयुञ्जः । असमास इति किम् ? अश्वयुक्, अश्वयुजौ, अश्वयुजः । ऋदिन्निर्देशः किम् ? "युजिच् समाधौ” इत्यस्य मा15 भूत्-युजमापन्ना मुनयः, समाधि प्राप्ता इत्यर्थः । घुटीत्येव ? युजः पश्य, युजी कुले ।। ७१ ॥
न्या० स०-युज्र इत्यादि। असमास इति-स्याद्याक्षिप्तस्य नाम्नो युज्र इति विशेषणात् तत्र च तदन्तविधेर्भावात् समासेऽपि प्राप्तिरिति असमासग्रहणम्, इदमेव ज्ञापयति-पत्र प्रकरणे तदन्तविधिरस्तीति ।। ७१ ।।
20
अनहहः सौ ॥ १. ४. ७२ ॥
अनडुह शब्दस्य धुडन्तस्य तत्सम्बन्धिन्यसंबन्धिनि वा सौ परे धुटः प्राग् नोऽन्तो भवति । अनड्वान्, प्रियानड्वान्, हे अनड्वन् !, हे प्रियानड्वन् ! । साविति किम् ? अनड्वाहौ ।। ७२ ॥
न्या० स०-अनडुह इत्यादि । सत्यपि नामग्रहणे* इति न्याये 'अनडुही' इत्यत्र25