________________
१२४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ६६-६६.]
धुटा प्राक् ॥ १. ४. ६६ ॥
स्वरात् परा या धुटजातिस्तदन्तस्य नपुंसकस्य धुड्भ्य एव प्राक् शौ परे नोऽन्तो भवति । पयांसि तिष्ठन्ति, पयांसि पश्य, उदश्विन्ति, सीषि, धनूंषि, अतिजरांसि कुलानि । धुटामिति बहुवचनं जातिपरिग्रहार्थम्, तेनकाष्ठतङ्क्षि, गोरङ्क्षि कुलानीति सिद्धम् । स्वरादित्येव ? गोमन्ति कुलानि । 5 शावित्येव ? उदश्विता ।। ६६ ।।
न्या० स०-धुटामित्यादि-प्रागित्यनेन सह सम्बन्धाभावाद् धुटामित्यत्र "प्रभृत्यन्यार्थ०" [२. २. ७५.] इति न पञ्चमी। गोमन्ति "ऋदुदितः" [१. ४. ७०.] इत्यनेन परत्वान्नागमेऽनेन नोऽन्तो न भवति ॥ ६६ ॥
10
र्लो वा ॥ १. ४. ६७ ॥
रेफ-लकाराभ्यां परा या धुडजातिस्तदन्तस्य नपुंसकस्य धुटः प्राग् नोऽन्तो वा भवति, शौ परे । बहूजि, बहूजि; सूञ्जि, सूजि; सुवङ्गि, सुवल्गि । ल इति किम् ? काष्ठतङ्क्षि, पूर्वेण नित्यमेव । धुटामित्येव ? सुफुल्लि वनानि । शावित्येव ? बहूर्जा कुलेन ।। ६७ ।।
. 15
त्रुटि ॥ १. ४. ६८ ॥
अधिकारोऽयम्, निमित्तविशेषोपादानमन्तरेणापादपरिसमाप्तेर्यत् कार्य वक्ष्यते तद् घुटि वेदितव्यम् ।। ६८ ॥ .
न्या० स०-घुटोति । अधिकारोऽयमिति-'नपुसकस्य घुटि परतो नोऽन्तो भवति' इति विधिरेव कस्मान्न भवति ? उच्यते-नपुसकस्य शिमन्तरेणान्यस्य घुट्त्वाभावात्, तत्र च “स्वराच्छौ" [१. ४. ६५.] इत्यादिभिर्नागमस्य विहितत्वात् पारिशेष्यादधिकारो-20 ऽयमिति ।। ६८ ।।
अचः ॥ १. ४. ६६ ॥
अञ्चतेर्धातो(डन्तस्य तत्सम्बन्धिन्यसम्बन्धिनि वा घुटि परे धुटः प्राग् नोऽन्तो भवति । प्राङ्, अतिप्राङ्, प्राञ्चौ, प्राञ्चः, प्राञ्चम्, प्राञ्चि