SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ [पा० ४. सू० ३८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ १०६ पितुः; मातुः, मातुः । ङसि-ङस इत्येव ? पितृ न् । ऋत इति किम् ? ग्रः ।। ३७ ॥ न्या० स०-ऋतो डुरिति । *ऋकारोपदिष्टं लकारस्यापि तेन "ऋफिडा." [ ४. ४. ११६. ] इति लत्वम्, कुल् लकारः, यदाह उपाध्यायः-'आप्लु' इत्येतस्मात् षष्ठयामापुल इत्येव भवति ।। ३७ ॥ 5 तु-स्वस-नस्तु नेष्ट-त्वष्ट-क्षत होतु-पोतु-प्रशास्त्रो छुटयार् ॥१. ४. ३८ ॥ तृच-तृन्प्रत्ययान्तस्य स्वस्रादिशब्दानां च सम्बन्धिन ऋकारस्य स्थाने तत्सम्बन्धिन्यसम्बन्धिनि वा घुटि परे 'पार्' इत्ययमादेशो भवति । कर्तारम्, कर्तारौ, कर्तारौ, कर्तारः कटस्य; वदितारम्, वदितारौ, वदितारौं, वदितारो10 जनापवादान्; स्वसारम्, स्वसारौ, स्वसारौ स्वसारः; नप्तारम्, नप्तारौ, नप्तारौ, नप्तारः; नेष्टारम्, नेष्टारौ, नेष्टारौ, नेष्टारः; त्वष्टारम्, त्वष्टारौ, त्वष्टारौ, त्वष्टारः; भत्तारम्, क्षत्तारौ, क्षत्तारौ, क्षत्तारः; होतारम्, होतारौ, होतारौ, होतारः; पोतारम्, पोतारौ, पोतारौ, पोतारः; प्रशास्तारम्, प्रशास्तारौ, प्रशास्तारौ, प्रशास्तारः; अतिकर्तारम्, अतिकर्तारौ,15 अतिकर्तारौ, अतिकर्तारः । घुटीति किम् ? कर्तृ कुलं पश्य । सौ तु परत्वाद् डा-गुणौ कर्ता, हे कर्तः ! । तृशब्दस्यार्थवतो ग्रहणेन प्रत्ययग्रहणान्नप्त्रादीनामव्युत्पन्नानां संज्ञाशब्दानां तृशब्दस्य ग्रहणं न भवतीति तेषां पृथगुपादानम् ; इदमेव च ज्ञापकम्-*अर्थवद्ग्रहणे नानर्थकस्य ग्रहणं भवति इति, व्युत्पत्तिपक्षे तु तृग्रहणेनैव सिद्धे नप्त्रादिग्रहणं नियमार्थम्, तेनान्येषामौणादिकानां20 न भवति-पितरौ, भ्रातरौ, मातरौ, जामातरौ। केचित् तु प्रस्तोतृ-उन्नतृउद्गातृ प्रतिहर्तृ-प्रति-स्थातृशब्दानामौणादिकानामप्यारं मन्यन्ते प्रस्तोतारम्, प्रस्तोतारौ, प्रस्तोतारौ, प्रस्तोतारः, इत्यादि ।। ३८ ।। न्या० स०-तृ-स्वनित्यादि-सूत्रत्वाद् “अनामस्वरे०” [१. ४. ६४.] इति न, सूत्रे ऋकारोपादानाद् वा, कथमिति चेत् ? प्रशास्तृणाम् ऋः प्रशास्तृ.: तस्य ।25 प्रतिकर्तारमिति-अत्र तत्पुरुषो न बहुव्रीहिः कच्प्रसङ्गात्, तेन च व्यवधानेन प्राप्त्यभावात् । नन्वत्र सूत्रे शौ निमित्ते किं न दर्शितम् ? "स्वराच्छौ" [ १.४. ६५. ] इति
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy