________________
११० ]
बृहद्वृत्ति-लघुन्याससंवलिते
पा० ४. सू० ३६-४०.]
नागमेन व्यवधानान प्राप्नोतीति चेत्, न-नागमः प्रकृतेरेवांश इति, सत्यम्-अवयवेनावयवस्य ऋल्लक्षणस्य व्यवधानं भवतीति न दर्शितम् । सुष्टु अस्यति-क्षिपति भ्रातुरमाङ्गल्यमिति-स्वसा “सोरसे:" [ उणा० ८५३. ], नमति पूर्वजेभ्य इति नप्ता "नमेः प्च" [ उरणा० ८६२. ], नयति प्राप्नोति वेदशाखाम् इति-नेष्ठा "नियः षादि:" [ ऊणा० ८६४. ] तृप्रत्ययः, "त्विषी दीप्तौ” त्वेषते दीप्तो भवति स्वर्गनिर्माणनैपुणेनेति- 5 त्वष्टा, "क्षद खदने" इति सौत्रः, क्षत्ता "त्वष्ट-क्षत्तृ-दुहित्रादयः" [ उणा० ८६५. ] इत्यनेन निपातः । जुहोति व्री ह्यादिकान्, पुनाति प्रात्मानं वेदपारन “हु-पू गोन्नी-प्रस्तु०" [ उणा० ८६३. ] इत्यादिना-होता, पोता, प्रशास्ति दिशति शास्त्राणि इति-प्रशास्ता "शासिशंसि-नी." [ उणा० ८५७.] इत्यादिना तृप्रत्ययः । जायत इति जा पुत्री "क्वचित्" [ ५. १. १७१. ] इति ड: प्रत्ययः, जां मिनोति जाया मिगस्तृप्रत्यय: 10 "मिग्मीग:०" [ ४. २. ८. ] इत्याकारः, केचित् त्विति-भोजप्रभृतयः ।। ३८ ।।
अौं च ॥ १. ४. ३६ ॥
ऋकारस्य स्थाने ङौ घुटि च परे 'अर्' इत्ययमादेशो भवति । पितरि, पितरम्, पितरौ २, पितरः, मातरि, मातरम्, मातरौ २, मातरः । ङौ चेति किम् ? पित्रा, मात्रा। 'कर्तृ रिण कुले, कतृ रिण कुलानि' इत्यत्र तु15 परत्वात् पूर्वं न एव, तस्मिश्च सति व्यवधानान्न भवति । ऋत इत्येव ? नि ।। ३६ ॥
न्या० स०-अडो चेति । डो घुटि चेति-पत्र निमित्तात् परः श्रूयमाणश्चकारो निमित्तान्तरसव्यपेक्षः प्रत्यासत्तेरनन्तरसत्रोपात्तमेव निमित्तमुपस्थापयति । कणि कुले इति-पितरि. वारिणीत्यादावभयोः सावकाशत्वेन परत्वान्नागमे ऋकारान्तत्वाभावान्न20 भवतीति ।। ३६॥
मातुतिःपुत्रेऽहँ सिनामये ॥ १. ४. ४० ॥
मातृशब्दस्याऽऽमन्त्र्ये पुत्रे वर्तमानस्य सामर्थ्याद् बहुव्रीहौ समासे सिना सह मात इत्यकारान्त आदेशो भवति, अर्हे-मातृद्वारेण पुत्रप्रशंसायां गम्यमानायाम्, कचोऽपवादः । गार्गी माता यस्य तस्यामन्त्रणं हे गार्गीमात !,25 एवम्-हे वात्सीमात ! , अत्र पुत्रः संभावितोत्कर्षया श्लाघ्यया मात्रा तत्पुत्रव्यपदेशयोग्यतया प्रशस्यते । मातुरिति किम् ? हे गार्ग्यपितृक ! । पुत्र इति किम् ? हे मातः !, हे गार्गीमातृके वत्से ! । अर्ह इति किम् ? अरे