________________
[ पा० ३. सू० ६२ - ६५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ८७
उच्यते-पाठकाले यो दन्त्यसकारस्तस्य कृतत्वाभावादिति । 'सर्पिष्षु' इत्यादिषु पदान्तत्वाद् "नाम्यन्तस्था० " [२. ३. १५. ] इत्यादिना षत्वं न भवति प्रकृतेः सस्य ।। ६१ ।।
न शात् ॥ १.३. ६२ ।।
शकारात् परस्य तवर्गस्य स्थाने यदुक्तं तन्न भवति, किमुक्तम् ? चवर्गः । प्रश्नाति ; अश्नुते, विश्नः प्रश्नः ।। ६२ ॥
न्या० स० - न शादिति । तवर्गस्येति प्रसंभवात् सस्येति न व्याख्यातम् ॥ ६२ ॥ पदान्ताट्टवर्गादनाम्- नगरीनवते ॥ १.३. ६३ ॥
5
पदस्यान्ते वर्तमानाट्टवर्गात् परस्य नाम्नगरी - नवतिसम्बन्धिवजितस्य तवर्गस्य सकारस्य च यदुक्तं तन्न भवति, किमुक्तम् ? टवर्ग- षकारौ । षट्तयम् मधुलिट् तरति मधुलिट् थुडति मधुलिड् दुनोति, मधुलि धुनोति, 10 षण नया:; मधुलिट् सीदति, मधुलिट् साये, मधुलिट् स्यात् मधुलिट्सु । टवर्गादिति किम् ? चतुष्टयम्, सर्पिष्ट्वम् । पदान्तादिति किम् ? ईट्टे । अनाम्-नगरी - नवतेरिति किम् ? षण्णाम्, षण्णगरी, षण्णवतिः । नामित्यामादेशस्य ग्रहरणादिह प्रतिषेधो भवत्येव - षड्नाम ।। ६३ ।।
न्या० स० - पदान्तादित्यादि । तवर्गस्येति उत्तरत्र तवर्गस्येति भणनात् तवर्गस्य 15 सस्य चेति लभ्यतेऽत्र । नामित्यामादेशस्येति-अन् प्रत्ययान्तस्य घञन्तस्य च नमतेरवयव एक:, अपरश्वामादेश:, अत्र य ग्रामादेशो नाम् तस्यैवार्थवत्त्वात् प्रत्ययाप्रत्यययोः प्रत्ययस्यैव इति न्यायाद्वा ग्रहणमित्याह - षड़नाम । नामशब्दो नकारान्तोऽकारान्तो वाऽव्यय इति ।। ६३ ।।
षि तवर्गस्य ॥ १. ३. ६४ ॥
पदान्ते वर्तमानस्य तवर्गस्य स्थाने षकारे परे यदुक्तं तन्न भवति, किमुक्तम् ? टवर्ग: । तीर्थकृत् षोडशः शान्तिः, भवान् षण्डः । षीति किम् ? तट्टीकते । तवर्गस्येति किम् ? सर्पिष्षु ।। ६४ ।
लि लौ ॥ १.३.६५ ।।
पदान्ते वर्तमानस्य तवर्गस्य स्थाने लकारे परे स्थान्यासन्नावनुनासिका-25
20