________________
८६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० ६१.]
ईट्ट । तवर्गस्य चवर्गे कृते “च जः क-गम्" [२. २. ८६.] इति न भवति, *प्रसिद्धं बहिरङ्गमन्तरङ्ग इति, तत्र च प्रत्ययाधिकाराद् 'मज्जति' इत्यादावपि न भवति, एयमुत्तरत्रापि शकारस्य षत्वमपि न भवति ।। ६० ।।
न्या० स०-तवर्गस्येत्यादि । स्थानित्वाऽऽशङ्कत्यादि-अयमर्थः-योगग्रहणं विना सहार्थतृतीयायाम् “अवर्णस्येवर्णादिना०" [१. २. ६.] इत्यादिवत् श्चवर्गादेरपि स्थानि- 5 त्वाशङ्का, परदिग्योगपञ्चम्यां तु “पञ्चम्या निर्दिष्टे परस्य" [७. ४. १०४.] इति न्यायात् परस्यैव तवर्गस्य स्यात्, न पूर्वस्येति योगग्रहणम् । ननु तवर्गस्य कायित्वात् तेन च विशिष्टवर्णसमुदायस्याभिधानात् । 'तच् शेते' इत्यादिषु एकैकस्य तवर्गशब्दादप्रतीतौ कथं कार्यित्वमिति ? सत्यम्-समुदायैकदेशस्यापि तदात्मकत्वाद् "ग्रामो दग्धः' इतिवत् । समुदायशब्देनाभिधानात् दस्यापि तवर्गत्वे सति दकाररूपतवर्गस्यानेन जकारः यद्वा,10 यथा-ग्रामे वसति, गहे वसतीत्यादौ ग्रामाद्येकदेशादेरपि ग्रामादिशब्दादभिधानम्, नहि देवदत्तादिरेवमभिधीयमानो ग्राम गृहं वा व्याप्य वसति, किन्तु तदेकदेशे, तत्र स एवैकदेशो ग्रामो गृहं चोच्यते, तद्वदत्रापीत्यदोषः । तच् छादयतीति “छदरण संवरणे" इत्यस्य "छदण अपवारणे" इत्यस्य वा युजादे: स्वार्थरिणजन्तस्य रूपम् । तज् झाषयतीतिप्रयोक्त व्यापारे रिणग्, “हन्त्यर्थाश्च" इति णिजन्तस्य वा रूपम् । राज्ञ इति-शसि ङसौ ङसि15 च रूपम्, एवम् मज्ज्ञ इत्यपि । पूर्वेण शकारेणेति-"न शात्" [१. ३. ६२.] इत्यनेन निषेधो वक्ष्यते । परेण षकारेणेति-"षि तवर्गस्य" [ १. ३. ६४. ] इत्यनेन । अन्वित्यधिकारात् 'अड्डिडिषति' इत्यत्र द्वित्वे कृते पश्चात् टवर्गः, अन्यथा अडिड्डिषतीत्यनिष्टं रूपं स्यात्, एवम्-'अट्टिटिषते' इत्याद्यपि । एवमुत्तरसूत्रेऽपि "च-जः क-गम्" [ २. १. ८६. ] इति न भवतीति-तच् शेते, तच् चरतीत्यादौ उभयाश्रितत्वाच्चत्वं बहिरङ्ग पदमात्रा-20 श्रितत्वात् कत्वमन्तरङ्गमिति । शकारस्य षत्वमपीति-'वृश्चति' इत्यादौ “सस्य श-षौ" [ १. ३. ६१. ] इति कृतस्य शकारस्य “यज-सृज-मृज०" [ २. १. ८७. ] इत्यनेन धुडाश्रितं षत्वं प्रत्ययाभावान्न भवतीत्यर्थः ।। ६० ।।
सस्य श-धौ ॥ १. ३. ६१ ॥
सकारस्य स्थाने श्चवर्ग-ष्टवर्गाभ्यां योगे यथासंख्यं शकार-षकारावादेशौ25 भवतः । चवर्गेण-श्च्योतति, वृश्चति, मज्जति, लज्जते, भृज्जति, सज्जति; षकारेण-सर्पिष्षु, धनुष्षु, दोष्षु, अत्र सो रुत्वं तस्य सत्वं, सुपः षत्वं, ततोऽनेन पूर्वसस्य षत्वम् ; टवर्गेण-पापषि, बंभषि ।। ६१ ॥
न्या० स०-सस्येत्यादि । ननु “वृश्चति" इत्यादौ दन्त्यापदिष्टं कार्य तालव्येऽपि भवति इति भणनात् “नाम्यन्तस्था०" [२. ३. १५.] इति षत्वं कथं न भवतीति ? 30