________________
[पा० ३. सू० ५६-६०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ८५
हार्यम्, तच्च समास एव, अन्यत्र तु "अभ्वादे०" [१. ४. ६०.] इति दीर्घत्वे विशेषाभावः, यदुत्पल:-कर्मधारयात् समासान्ते प्रचेताराजः, प्रचेतोराजः; शकटोऽप्याह-प्रचेतसो राजा प्रचेताराजः, प्रचेतोराजः, प्रचेता राजा अस्येति प्रचेताराजा, प्रचेतोराजेति । प्राकृतिगणार्थत्वाद् बहुवचनस्य वारि चरति “क्वचित्" [५. १. १७१.] इति डे वा! हंसः, उषसि बुध्यते “नाम्युपान्त्य०" [५. १. ५४.] इति के उषर्बुधः, अनयोः शत्वमुत्वं च न 5 भवति, व्यवस्थितवाशब्दाच्च न विकल्पः ॥ ५८ ।।
शिटयाद्यस्य द्वितीयो वा ॥ १. ३. ५६ ॥
श्राद्यस्य प्रथमस्य स्थाने शिटि परे द्वितीयो वा भवति । ख्षीरम्, क्षीरम् ; तछ् शोभनम्, तच् शोभनम् ; सम्राठ्सु, सम्राट्सु; भवथ्सु, भवत्सु ; अफ्सु, अप्सु ; अफ्सराः, अप्सराः । प्राद्यस्येति किम् ? भवान् साधुः शिटीति10 किम् ? वाक् करोति, सत्यम् ।। ५६ ।।
न्या० स०-शिटयाद्य त्यादि । अत्राद्यत्वं प्रतिवर्गपञ्चकं प्रथमाक्षरापेक्षम्, तदपेक्षं च द्वितीयत्वमिति, तेन क-च-ट-त-पानां ख-छ-ठ-थ-फा: शिटि भवन्ति । क्रमेणोदाहरणानि ।। ५६ ।।
तवर्गस्य श्चवर्ग-टवर्गाभ्यां योगे च-टवर्गों ।। १.३.६० ॥15
तवर्गस्य स्थाने शकार-चवर्गाभ्यां षकार-टवर्गाभ्यां च योगे यथासंख्यं चवर्ग-टवर्गावादेशौ भवतः, स्थान्यासन्नौ। समुदायद्वयापेक्षया यथासंख्यार्थं तृतीयाद्विवचनम् । योगग्रहणं स्थानित्वाशङ्कानिरासार्थं पूर्वापरभावानियमार्थं च । शकारेण योगे-तच शेते, तच् श्च्योतति, भवाञ् शेते, चवर्गेण योगेतच् चरति तच् छादयति, तज् जयति, तज् झाषयति, तञ् अकारेण, अत्र20 दकारस्य जकारे "तृतीयस्य पञ्चमे" [१. ३. १.] इति अकारः, प्रशाञ् चरति, प्रशाञ् छिनत्ति, प्रशाञ् छादयति, भवाञ् जयति, भवाञ् झाषयति, भवाञ् जकारेण, पूर्वेण चवर्गण-याच्ञा, यज्ञः, राज्ञः । पूर्वेण शकारेण परेण च षकारेण प्रतिषेधो वक्ष्यते । पूर्वेण तु षकारेण-पेष्टा, पेष्टुम् । 'पूष्णः, वृष्णः, पूष्णा, दोष्णा' इत्यादि णत्वेनापि सिध्यति । टवर्गेण-तट टीकते,25 तट ठकारेण, तड् डीनम्, तड् ढोकते, तण णकारेण, अद्ड-अड्डति, अटिअट्टते, भवाण डीनः, भवाण ढौकते, भवाण णकारेण; पूर्वेण टवर्गेण