________________
८८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
- [पा० ४. सू० १.]
ऽननुनासिको लकारौ भवतः । तल लुनाति, भवालँ लुनाति । “आसन्नः" [७. ४. १२०.] इत्येव सिद्धे द्विवचनमन्यत्रानुनासिकस्यापि स्थानेऽननुनासिकार्थम्, तेन “वाष्टन आः स्यादौ” [१. ४. ५२.] इत्यादावननुनासिक एव भवति ।। ६५ ।। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानु- 5 शासनबृहद्वृत्तौ प्रथमस्याध्यायस्य तृतीयः पादः ॥ ३ ॥
चक्रे श्रीमूलराजेन नवः कोऽपि यशोऽर्णवः । परकीर्तिस्रवन्तीनां न प्रवेशमदत्त यः ।। ३ ।।
न्या० स०-लिलाविति । अननुनासिक एव भवतीति-विपरीतनियमस्तु निरनुनासिकस्य सानुनासिकः इति "हृदयस्य हल्लास०" [ ३. २. ४४. ] इत्यत्र हल्लासेति 10 करणान्न भवति । प्रायिकं चैतज्ज्ञापकम्, तेन "समानानां तेन दीर्घः" [१. २. १. ] इत्यादौ आसन्न एव भवतीति ।। ६५ ।।
इति प्रथमाध्यायस्य तृतीयः पादः ।। ३ ।।
३
प्रथ चतर्थः पाद:
अत आः स्यादौ जस-भ्याम्-ये ॥ १. ४. १॥
स्यादौ जसि भ्यामि यकारे च परेऽतोऽकारस्याऽऽकारो भवति । वृक्षाः, प्लक्षाः, आभ्याम्, श्रमणाभ्याम्, श्रमणाय, संयताय । अत इति किम् ? मुनयः, मुनिभ्याम् । स्यादाविति किम् ? बाणान् जस्यतीति क्विप्-बारगजः, अग्नये, वृक्षयोः ।। १ ॥
20
न्या० स०-अत आ इत्यादि । अत्र प्रत्ययाप्रत्यययो:०* इति सिद्धे स्यादिग्रहणं "ण-षमसत्परे०" [२. १. ६०.] इत्यादी प्रयोजनार्थम्, तेन ‘राजभ्याम्' इत्यादौ नलोपस्य स्यादिविधौ विधेयेऽसिद्धत्वादाकारो न भवतीति । न चात्र स्यादिग्रहणाभावे "त्रि-चतुर०"