________________
[पा० ३. सू० ४१-४२.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ७७
एवम्-सपीषि, सुदृशि। शिड्-ह इति किम् ? गम्यते, हन्यते । अपदान्त इत्येव ? भवान् साधुः, श्रेयान् हेतुः । अन्वित्येव ? पिण्ढि, शिण्ढि, अत्र पिष्-शिषोहौं तस्य धित्वे षस्य डत्वे च शिडभावाच्छ्ननकारस्यानुस्वारो न भवति ।। ४० ॥
- न्या० स०-शिड्-ह इत्यादि । ननु 'पिण्ड्ढि' इत्यादौ श्नस्यालुकः स्थानिवत्त्वाद- 5 कारेण षस्य व्यवधानाद् अनुस्वारो न प्राप्नोति, किमन्वित्याश्रयणेन ? नैवम्-"न सन्धि०" [७. ४. १११.] इति सन्धिविधौ स्थानित्वनिषेधात् । ननु हस्य शिट्संज्ञां कृत्वा "शिट्यनुस्वारः” इत्येवोच्यताम्, सत्यम्-यदि हस्य शिट्संज्ञां कृत्वा इह हग्रहणं न क्रियते तदा 'प्रोजढद्' इत्यत्र 'अघोषे शिटं:' [४. १. ४५.] इति हलोपेऽनिष्टं रूपं स्यादिति ॥४०॥
10 रो रे लुग दीर्घश्चादितः ॥ १. ३. ४१ ॥
अपदान्त इति नानुवर्तते, रेफस्य रेफे परे लुग् भवति, अकारेकारोकाराणां चानन्तराणां दीर्घो भवति । पुना रमते, प्राता रौति, अग्नी रथेन, नीरक्तम्, दूरक्तम्, पटू राजा, उच्चै रौति । अन्वित्येव ? अहोरूपम्, अत्र पूर्वमेव रोरुत्वे रेफाभावाल्लुग्-दीर्घाभावः सिद्धः ।। ४१ ।।
15
न्या० स०-रोर इत्यादि । नन्वपदान्त इत्यधिकारात् 'अजर्घाः, अपास्पाः, अचोकूः, अचाखाः, अचाकाः, अपापाः' इत्यादिष्वेव प्राप्नोति, न तु स्वाराज्यमित्यादाविति, नैवम्अदिदुत इति इद्ग्रहणादपदान्त इति नानुवर्तते, यत इकारात् परस्य रेफस्य रेफेऽपदान्ते .संभवो नास्तीति, भिन्नस्थानिनिमित्तभरणनाद् वा। किं पुनरिदं सानुबन्धस्य कायिणो रेफस्य ग्रहणं निरनुबन्धस्य वा ? तत्राद्यपक्षे-अग्नी रथेनेत्यादि सिध्यति, न तु 'पुना रमते'20 इत्यादि । द्वितीयपक्षे 'पुना रमते' इत्यादि सिध्यति, न त्वग्नी रथेनेत्यादि, न चोभयपरिग्रहे किञ्चिन्नियामकमस्ति, उच्यते-अत्र "रो रे लुग्०" [ १. ३. ४१. ] इत्येकप्रयत्नेनैव सूत्रे उभयोच्चारणादेकत्र सानुबन्धस्यापरत्र निरनुबन्धस्य च निर्देशाद् निरनुबन्धग्रहणे सामान्यग्रहणम् इति न्यायाच्च सामान्येन ग्रहणं भवतीत्याह--रेफस्येति । अनन्तराणामिति-ननु सामान्यनिर्देशादनन्तराणामेवेति कुतो लभ्यते ! इति चेद् , उच्यते-25 'रे' इत्युपश्लेषसप्तमीनिर्देशाद् लुगिव दीर्घोऽपि रेफोपश्लिष्टस्यैव भवतीति ॥ ४१ ।।
ढस्तड्ढे ॥ १. ३. ४२ ॥
तन्निमित्तो ढस्तड्ढः, ढकारस्य तड्ढे परेऽनु लुग् भवति, अकारेकारो