SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ७८ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० ३. सू० ४३-४४.] काराणां च दीर्घो भवति । महतेः क्तौ माढिः, लीढम्, मीढम्, गूढम् । तड्ढ इति किम् ? मधुलिड् ढौकते, नायं लुप्यमानढकारनिमित्तो ढः, एवम्'चकृड्ढ्वे, लुलुविड्ढ्वे' इत्यादावपि ढकारस्य द्वित्वे सति ढकारयोनिमित्तनिमित्तिभावो नास्तीति लुग् न भवति । अदिदुत इत्येव ? आतृढम्, आवृढम् । अन्वित्येव ? लेढा, मोढा, अत्र गुणे कृते पश्चाद् ढलोपः, अन्यथा हि पूर्वमेव 5 ढलोपे दीर्घ च लीढा, मूढेत्यनिष्टं रूपं स्यात् ।। ४२ ।। न्या० स०-ढस्तड इत्यादि। अन्विति-इदं सूत्रं पदान्ते "धुटस्तृतीयः" [२. १.७६.] इत्यस्य बाधकम्, अपदान्ते तु "तृतीयस्तृतीय-चतुर्थे" [१. ३. ४६.] . इत्यस्य चेति, ततोऽन्वित्यधिकार एतयोः सूत्रयोविषयं मुक्त्वा ज्ञातव्यः, अत एव 'मधुलिड् ढोकते' इत्यत्र पूर्व तृतीयत्वाभावे सति न द्वयङ्गविकलतेति । चकृड्ढ्वे इति-अत्र10 " म्यन्तात्०" [२. १.८०.] इति धस्य ढत्वे "प्रदीर्घात्" [ १. ३. ३२. ] इति तस्य द्वित्वे "तृतीयस्तृतीय०" [ १. ३. ४६.] इति ढस्य डः । आतृढम्, आवृढमिति"तृहौ, तृहौत् हिंसायाम्" "वृहीत् उद्यमने” इति धातू "वेटोऽपतः" [४. ६. ६२. ] इतीनिषेधः । लेढा इति-नन्वत्र परत्वाद् गुणो भविष्यति, किमन्वित्यधिकारेण ? सत्यम्-ढलोपस्याल्पाश्रितत्वेनान्तरङ्गत्वात् प्रथमं ढलोपो दीर्घत्वं च प्राप्नोति । ननु 15 ढस्यासत्त्वात् सर्वमप्यसत, ततो गुणो भविष्यति, सत्यम्-तथापि प्रसिद्धं बहिरङ्गमन्तरङ्गे, इति ढत्वे सति दीर्घत्वं स्यात्, वार्णो विधिः [ वार्णात् प्राकृतम् ] इति न्यायेनान्तरङ्ग ढत्वम्, ततस्तस्मिन् विधेये गुणोऽसिद्धः, यतो गुणोऽवार्णो विधिरिति, कार्यासत्त्वपक्षे इदमुक्तम् ; शास्त्रासत्त्वपक्षे तु गुणे कृते ढत्वं भवति ।। ४२ ।। सहि-वहेरोच्चावर्णस्य ॥ १. ३. ४३ ॥ . 20 'सहि वहि' इत्येतयोर्डस्य तड्ढे परेऽनु लुग् भवति, अवर्णस्य चौकारो भवति । सोढा, वोढा, उदवोढाम् । अवर्णस्येति किम् ? ऊढः ।। ४३ ।। । उदः स्था-स्तम्भः सः॥ १. ३. ४४ ॥ उदः परयोः 'स्था स्तम्भ' इत्येतयोः सकारस्य लुग भवति । उत्थाता, उत्थातुम्, उत्तम्भिता, उत्तम्भितुम् । उद इति किम् ? संस्थाता, संस्तम्भिता ।25 स्था-स्तम्भ इति किम् ? उत्स्तोता, उत्स्कन्नः । स इति किम् ? उत्तिष्ठति, उदस्थात्, उदस्तभत्, उत्तिस्तम्भिषति । प्रत्यासत्तेः स्था-स्तम्भविशेषणस्यैवोदो ग्रहणादिह न भवति-ऊवं स्थानमस्योत्स्थानः । कथमुत्स्कन्दतीति
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy