________________
[पा० ३. सू० ८.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ५६
पुनष्ठकारेण । त-थयोः सः-कस्तरति, कस्थुडति, अन्तस्तरति, अन्तस्थुडति । ।। ७ ।।
न्या० स०-च-ट-त इत्यादि। नन्वत्रासंदेहार्थं 'च-छ-ट-ठ-त-थे' इत्येव किं न क्रियते सद्वितीयग्रहणमपनीयेति ? सत्यम् निमित्तबहुत्वे यथासंख्यं न स्याद्, अत आहयथासंख्यमिति । न च सद्वितीयग्रहणे सत्यपि चकाराक्रान्तश्छकारो यत्र, एवं टकारोक्रान्त- 5 ष्ठकारः, तकाराकान्तस्थकारश्च यत्र भवेत् तत्रैव कार्यं प्राप्नोतीत्याशङ्कनीयम् “उदश्चरः साप्यात्," [३. ३. ३१.] "चरेष्ट:" [५. १. १३८.] "ब्रीह्यादिभ्यस्तौ” [७. २. ५.] इत्यादिज्ञापकात् केवलेष्वेव भवतीति ।। ७ ॥
. नोऽप्रशानोऽनुस्वारा-अनुनासिकौ च पूर्वस्याधुट्परे।
॥१.३.८ ॥10
पदान्ते वर्तमानस्य प्रशान्वजितशब्दसम्बन्धिनो नकारस्य स्थाने च-टतेषु सद्वितीयेष्वधुटपरेषु परेषु यथासंख्यं 'श, ष, स' इत्येते आदेशा भवन्ति, अनुस्वाराऽनुनासिकौ च पूर्वस्य-अनुस्वार आगमोऽनुनासिकश्चादेश: पूर्वस्य क्रमेण भवत इत्यर्थः । भवाँश्चरति, भवांश्चरति; भवाश्छादयति, भवांश्छादयति; भवाँष्टीकते, भवांष्टीकते; भवाँष्ठकारेण, भवांष्ठकारेण; भवाँ-15 स्तरति, भवांस्तरति ; भवाँस्थुडति, भवांस्थुडति । अप्रशान इति किम् ? प्रशाञ् चरति, प्रशाण टीकते, प्रशान् तरति । अधुट्पर इति किम् ? भवान् 'त्सरुकः । पदान्त इत्येव ? भवन्तः । विरामे प्रतिषेधस्य वक्ष्यमारणत्वादिह न भवति-भवान् चरति, भवान् टीकते, भवान् तरति ।। ८ ।।
न्या० स०-नोऽप्रेत्यादि । अधुट्पर इति-अधुट् परो यस्मादिति कार्यम्, न तु20 धुट परोऽस्मादिति कृत्वा नत्रा योगः कार्यः, यतः प्रसज्यशङ्कया वर्णाभावेऽपि स्यात् 'भवान् त्' इत्यत्रेति । ननु परग्रहणं किमर्थम् ? यावताऽधुटीत्युक्तऽपि अधुटि परतो यच्च-ट-तं तस्मिन् नस्य शादयो विज्ञातु शक्यन्त एवेति ? नैवम्-च-ट-ते परतो योऽधुट् तस्मिन् नकारस्यैते भवन्तीति कस्मान्न विज्ञायते ? ततश्च 'भवानाचरति, भवानाच्छादयति' इत्यादावेव स्यात्, न तु भवाँश्चरतीत्यादौ, परग्रहणे तु वर्तिपदार्थापेक्षयाऽन्त-25 रङ गमपि तत्पुरुषं बाधित्वा बहुव्रीहेराश्रयणात् पूर्वोक्तदोषाभाव इति । अनुस्वारापेक्षयाऽवयवाक्यविभावेऽनुनासिकापेक्षया स्थान्यादेशभावे पूर्वस्येति षष्ठी ॥८॥