SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ५८ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० ३. सू० ६-७] न्या० स०-रः क-खेत्यादि। ननु निरनुबन्धग्रहणे न सानुबन्धस्य- इति न्यायात् कः करोतीत्यादौ सानुबन्धस्य रेफस्यादेशो न प्राप्नोति, सत्यम्-"अरो: सुपि०" [१. ३. ५७.] इत्यत्र रुवर्जनाद् रोरप्यादेशः, तद्धि "रः पदान्ते." [१. ३. ५३.] इति सूत्राद् निरनुबन्धे रेफेऽनुवर्तमाने स्वयमेव सिद्ध सत् ज्ञापयति- निरनुबन्धग्रहणे सामान्यग्रहणम् । इत्यपि न्यायोऽस्तीति ।। ५ ।। श-ष-शे श-ष-संवा ॥ १. ३.६ ॥ पदान्ते वर्तमानस्य रेफस्य श-ष-सेषु परेषु यथासंख्यं 'श ष स' इत्येते आदेशा वा भवन्ति । कश्शेते, कः शेते; कष्षण्डः, कः षण्डः; कस्साधुः, . कः साधुः; अन्तश्शेते, अन्तः शेते; मातष्षण्डे !, मातः षण्डे !, पयस्सु, पयःसु । कथं गीर्षु, धूर्षु ? अरो रेफस्य सुपि रेफो वक्ष्यते । 'क: एशकार'10 इत्यादिषु त्वघोषे शिट्परे विसर्जनीयस्य विधानाद् रेफ एव नास्तीति न भवति; एवं पूर्वोत्तरयोरपि योगयोर्द्रष्टव्यम्-वासः क्षौमम्, अद्भिः प्सातम्, असेः त्सरुः । नवाधिकारे वाग्रहणमुत्तरत्र विकल्पनिवृत्त्यर्थम् ।। ६ ।। न्या० स०-श-ष-स इत्यादि-नन 'श-ष-से सो वा' इत्येवं सकार एव विधीयताम, तस्य च "सस्य शषौ" [१. ३. ६१.] इति कृते 'कश्शेते, कष्षण्ड:' इत्यादौ शकार-षकारौ15 सेत्स्यतः, एवमुत्तरत्रापि 'कश्चरति, कष्टीकते, भवाँश्चरति, भवाँष्टीकते' इत्यादौ श-षौ सेत्स्यत इत्युत्तरार्थमिति न वक्तव्यम्, तथा 'कश्शेते' इत्यादौ "धुटस्तृतीयः" [२. १. ७६.] इत्यस्मिन् कर्तव्ये रुत्वस्य, 'अन्तश्शेते' इत्यादौ तु प्रसिद्ध बहिरङ गम्” इति न्यायेम शत्वस्यासिद्धत्वे तृतीयत्वमपि न प्रवस्य॑ति, तत् किं श-षयोः पृथग्विधानेनेति ? सत्यम् प्रसिद्ध बहिरङ गमन्तरङगे " इति न्यायस्यानित्यत्वज्ञापनार्थम्, तेन "बभूवुषा"20 इत्यादौ स्वरनिमित्तमुवादि सिद्धम् । किञ्च, श-ष-स-ग्रहणं व्यक्त्यर्थम्, तेनैतेषु कृतेष्वेतद्विलक्षणं कार्यान्तरं न भवति, ततश्चान्तश्शेते मातष्षण्ड इत्यादौ "धुटस्तृतीयः" [२. १. ७६.] इति जत्व-डत्वादिकं न भवति, 'कश्शेते' इत्यादौ तु तृतीयाभावो रो: परेऽसत्त्वादपि सिध्यतीति न्यासः । कथं तर्हि 'सपिष्षु' इत्यादौ षत्वमिति ? सत्यम्श-ष-सविलक्षणं तृतीयत्वादिकं न भवति, श-ष-सरूपं तु भवत्येवेति दिक् ॥ ६ ॥ 25 च-ट-ते सद्वितीये ॥ १. ३.७ ॥ पदान्ते वर्तमानस्य रेफस्य च-ट-तेषु सद्वितीयेषु परेषु यथासंख्यं 'श, ष, स' इत्येते आदेशा भवन्ति । च-छयोः शः-कश्चरति, कश्छादयति, अन्तश्वरति, अन्तश्छादयति । ट-ठयोः षः-कष्टीकते, कष्ठकारेण, पुनष्टीकते,
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy