SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ परस्मैपातयः ४११-४१४] स्वोपन धातुपाराषणम्। चारुः [शोभनम् “मन्" (उ० ९११)। इति] मनि चर्म ॥ ४११ घोर गतेश्चातुर्ये । धोरति । दुधोर । क्ये धोर्यते। ऋदित्त्वाद् न इस्वः, अदुधोरत् । धोरिता। क्ते धोरितम् । “नन्द्यादिभ्यो-"५।१।५२। इत्यने आधोरणो हस्तिपकः । व्यस्तनिर्देश उत्तरार्थः ॥ ४१२ खोर प्रतीपाते । गतेरित्यनुवृत्तंर्गतिप्रतीपाते । खोरति । चुखोर । क्ये खोर्यते । खोरिता । ऋदित्त्वाद् न हूस्वः, अचुखोरत् । अचि खोरा अधमस्त्री । "के खोरिका पात्री ॥ अथ लान्ताश्चत्वारिंशत् सेटश्च४१३ दल ४१४ त्रिफला विशरणे । दलति । ददाल देलतुः देलुः । “वद-व्रज"-४।३। ४८। इति वृद्धौ अदालीत् । केचित् एनं घटादिं मन्यन्ते, गौ दलयति । दलिता, दलितुम् । अचि दलम् । उणादौ "दलि-वलि " (उ० ३०४) इति अपे दलपः प्रहरणम् । “दलेरीपो दिल च" (उ० ३१०) दिलीपः । “गृ-दृ-रमि-" (उ० ३२७) इति मे दस्मै ऋषिः । दलण् विदारणे दालयति ॥ अिफला । फलति । प्रतिफलति, उत्फलति । पफाल । “तृ-त्रप-" ४।१।२५। इत्येत्वे 10 फेलतुः फेलुः । “वद-व्रज-" ४।३।४८॥ इति वृद्धौ अफालीत् । यङि “चर-फलाम्" ४।१।५३। इति म्वागमे “ति चोपान्त्य-" ४।११५४। इत्युत्वे च पम्फुल्यते। यङ्लुपि पम्फुलीति पम्फुलीषि, "द्वयुक्तोपान्त्यस्य-" ४।३।१४। इति गुणप्रतिषेधः। पम्फुल्ति पम्फुल्षि, अत्र “ति चोपान्त्य-" ४।१।५४॥ इत्यत्राऽनोदिति वचनाद् गुणाभावः । तसि पम्फुल्तः । अचि फलम् , सम्फलः । यड्यचि पम्फुलः । “तिक्कृतौ नाम्नि" ५।१७१। इति अकटि फलकम् । “अनुपसर्गाः क्षीबोल्लाघ-" 15 ४।२।८०। इति ते निपातनात् फुल्लः फुल्लमनेन, उत्फुल्लः सम्फुल्लः । सोपसर्गस्य प्रफुल्ता लता, अत्र जीत्त्वात् "ज्ञानेच्छाऽर्चा--". ५।२।९२। इति वर्तमाने क्तः। क्तवतौ निपातनाभावात् फुल्तवान् । ये तु क्तवतावपीच्छन्ति तन्मते फुल्लेवान्। आदित्त्वाद् “नवा भावाऽऽरम्मे" ४।४।७२। इति तयोर्वा नेटि प्रफुलितमनेन प्रफुल्तमनेन, प्रफुलितः प्रफुल्तः । उणादौ "दृ-क-न-" (उ० २७) इति अके १ 'गतिचातुर्ये' इति समस्तं न कृत्वा व्यस्तनिर्देश इति भावः ॥ २ दलण् विदारणे, दल्भ ऋषिवल्कलं विदारणं च इति उणादिवृत्तौ, तथापि उणादिसूत्रे "गृ-दृ-रमि-हनि-जन्यति-दलिभ्यो भः" (उ०३२७) इत्यत्र दलि इति सामान्येन पठनात् अत्रोदाहरणाच्च उभयोरपि प्रहणम् ॥ ३ "तृ-त्रप-फल-भजाम्" ४।१।२५। इत्यत्र फल त्रिफला इत्युभयोरपि ग्रहणार्थ बहुवचनम् अन्यथा 'निरनुबन्धग्रहणे न सानुबन्धकस्य' इति न्यायाद् निफला इत्यस्य न स्यात् ॥ ४ कथं तर्हि प्रफुल्लः ? इति, फुल्ल विकसने इत्यस्माद् धातोः केन अचा वा भाव्यम् । यद्वा "अनुपसर्गाः क्षीबोल्लाघ-" ४।२।८०। इत्यत्र बहुवचनविधानात् 'समासान्तागमसज्ञाज्ञापकगणननिर्दिष्टान्यनित्यानि' इति न्यायाच्च यथा फुल्लि: । यद्वा प्रफुल्ल इत्यत्र यः प्रशब्दः स क्रियान्तरयोगात् फुल्लि प्रत्यनुपसर्ग एव, 'यत्क्रियायुक्ताः प्रादयस्त प्रत्येवोपसर्गसम्ज्ञाः'इति वचनात् प्रगतः फुल्लः प्रफुल्ल: इति प्रादिसमासः॥ ५ इदं वामनस्य मतम् , तथा च तद्वचः-"कवस्वन्तस्याप्येतल्लत्वमिष्यते" इति पा. 6-२-५५ सूत्रवृत्तौ ॥ ६ क्तयोर्वेटि संपा१ पा० ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy