________________
आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे फलकः । “कीचक-पेचक-" (उ० ३३) इति निपातनात् फलैहकः । “फलेोऽन्तश्च" (उ० २९१) इति उने फल्गुनः फल्गुनी। “कमि-वमि-" (उ० ६१८) इति णित् इः, फालिदलम् । “फलिवल्यमेणुः" (उ० ७५८) फल्गुः । फल निष्पत्तौ फलितः ॥
४१५ मील ४१६ इमील ४१७ स्मील ४१८ क्ष्मील निमेषणे । निमेषणं सङ्कोचः । 5 मीलति । मिमील । णौ डे "भ्राज-भास-" ४।२।३६। इति वा ह्रस्वे अमीमिलत् अमिमीलत् ।
मीलिता। ते मीलितः । ते सेट्त्वात् प्रमीला तन्द्रा । अनटि मीलनम् । मिलत् श्लेषणे मिलति । अनटि मेलनम् ॥ श्मील। तालव्यादिः । श्मीलति । श्मीलिता॥ स्मील। दन्त्यादिः । स्मीलति । स्मीलिता ॥ क्ष्मील । क्ष्मीलति । क्ष्मीलिता ॥
४१९ पील प्रतिष्टम्भे । प्रतिष्टम्भो रोपणम् । पीलति । पिपील । णौ डे अपीपिलत् । पीलिता। 10 "नाम्युपान्त्य-" ५।१।५४। इति के पीला । अपिपूर्वात् णके अपिपीलकः पिपीलिका, पृषोदरा- . दित्वाद् अपेः पिः॥
४२० णील वर्ण । वर्णोपलक्षितायां क्रियायाम् । यथा-"श्वेतं नीलति मरकतकान्त्या" [ ]| “पाठे-"२।३।९७। इति णस्य नत्वे नीलति । णोपदेशत्वाद् “अदुरुपसर्गा-" २।३।७७। इति णत्वे
प्रणीलति । निनील । नीलिता। अचि नीलम् , प्रणीलम् । “नीलात् प्राण्यौषध्योः” २।४।२७॥ इति 15 ड्याम् नीली गौः ओषधिश्च. अन्यत्र नीला शाटी। "क्ताच्च-" २।४।२८। इति वा ड्याम् नीली नीला । उणादौ "प्री-कै-पै-नीलेरमुक्(उ० ७६१) नीलगुः कृमिः ॥
४२१ शील समाधौ । समाधिः ऐकाग्र्यम् । तालव्यादिः । शीलति, परिशीलति । शिशील । णिगि शीलयति । "ज्ञानेच्छा-ऽर्चा-" ५।२।९२। इति सत्यर्थे क्ते अनुशीलितः । “शीलि कामि-"
५।१।७३। इति णे धर्मशीला । घञि शीलम् । उणादौ "कोरदूषा-ऽऽटरूप-" (उ० ५६१) इति 20 निपातनात् ऊषे शैलूंषः शिलूषः शिलूषापत्यं वा । शीलण उपधारणे शीलयति ॥
४२२ कील बन्धे । कीलति । चिकील । कीलिता। णिगि कीलयति । "नाम्युपान्त्य-" ५।१। ५४। इति के कीलः । पञि कील्यतेऽनेनास्माद् वा कीलः, कपि कीलकः । क्ते सेट्त्वात् "तेटो-" ५।३।१०६। इति अः, कीला । क्ते उत्कीलितः । उणादौ "ऋ-कृ मृ-" (उ०४७५) इति आले कीलालम् । “नाम्युपान्त्य-" (उ० ६०९) इति किद् इः कीलिः ॥ .
१ सर्वाण्यपि अत्र पठितानि उदाहरणानि फल निष्पत्तौ इत्यस्य, अत्र पठनाच्च त्रिफला विशरणे इत्यस्यापि । एवं यत्र यत्र यद्धातुवृत्ती ये धातवः पठितास्तेषामपि तत्तत्प्रयोगा अभ्यूह्याः॥२फलहकम् संपा. १ वा० ॥ ३ रोधनमिति एके॥ ४ 'नीली' इत्यत्र जातिशब्दादपि जातौ नित्यत्रीत्वाद् 'जातेरयान्त-नित्यस्त्रीशद्रात्" ॥४॥५४॥ इत्यप्राप्तेऽनेनैव डीः । ये तु नील: पट इत्यर्थान्तरेऽस्त्यर्थस्यापि दर्शनादनित्यं स्त्रीत्वमभ्युपगच्छन्ति तेषां गुणशब्दस्यैवेदमुदाहरणम् । जातिशब्दात्तु "जातेरयान्त-" २।४५४। इत्यनेन दी: सिद्ध एव ।। ५ धर्म शीलयति इति धर्मशीलः, स्त्री चेत् धर्मशीला॥ ६ “शलेरै चातः” इति (५६१) उणादिवृत्तौ निर्देशान अभिधानचिन्तामणिकोषेऽपि (कां०२ श्लो० २४२) "शलति वेषान्तरम्" इत्यभिधानाच्च शलतेः इदं रूपम् अन्यथा 'शीलेरै-हस्वश्चेतो वा' इति वदेयुः॥