________________
५४
आचार्यश्री हेमचन्द्रविरचितं
[भूवादिगणे
इति वृद्धौ अचारीत् । “गु-लुप - " ३ | ४ | १२ | इति यङि गर्हितं चरति चञ्चूर्यते, अत्र “ति चोपान्त्या – ” ४।१।५४। इत्यत उत्वम् “चर - फलाम् ” ४।९। ५३ । इति पूर्वस्य मुरन्तः । यङ्यचि चञ्चुरः । “चरेराङस्त्वगुरौ ५।१।३१। इति ये चर्यम्, आचर्यं तपः; आश्चर्यमद्भुतम् वर्चस्कादित्वात् साधुः; गुरौ त्वाचार्यः । णके परिचारकः । अचि चरः, गौरादित्वाद् ड्याम् चरी । प्रज्ञाद्यणि चर एव चारः । D पटन्तश्चरन्तीति पटच्चराश्चौराः । जीर्णवस्त्रं तु "भूतपूर्वे - " ७ २७८ प्चरटि भूतपूर्व पट इवाचरत् पटच्चरम् । “तिक्कृतौ नाग्नि " ५।१।७१ । इति अकटि चरकः । “चरेष्टः " ५।१।१३८ । कुरुचरः, कुरुचरी । “भिक्षा-सेना-ऽऽदायात् ५।१।१३९। भिक्षां चरति भिक्षाचरः, सेनां चरति - परीक्षते सेनाचरः, आदीयते इत्यादायः - वागुरा तेन आदाय वा चरति आदायचरः । “प्रहादिभ्यो - " ५/१/५३ | इति णिनि व्यभिचारी । व्यभिचैरी गणनिपातनात् पक्षे ह्रस्वः । “सब्रह्मचारी " ३ |२| १५० । इति निपा10 तनात् समानं ब्रह्मव्रतं समाने वा ब्रह्मणि - गुरुकुले व्रतं चरतीत्येवंशीलः सब्रह्मचारी, अत्र समानस्य. सभावो व्रतशब्दलोपश्च । “भ्राज्यलङ्कृग् - " ५|२|२८| इति इष्णौ चरणशीलश्चरिष्णुः । “सम - त्या - " ५/२६२ । इति घिनणि सञ्चारी अतिचारी अपचारी अभिचारी व्यभिचारी । "लू-धू-सूखन-'" ५|२|८७| इति इत्रे चरित्रम् । धनि उच्चारः । चरिता, चरितुम् । क्तौ तिकि वा चूर्तिः ब्रह्मचूर्तिः । “समज--" ५|३| ९९ | इति क्यपि चर्या । “परेः सृ-चरेर्यः” ५|३|१०२ । परिचर्या । 15 “गोचर-सञ्चर–”५।३।१३१। इति निपातनाद् घञपवादे घे गोचरः सञ्चरः । " चराचर - " ४|१|१३| इति निपातनादचि चराचैरः । उणादौ "तृ-कृ-शृ - " ( उ० १८७) इति अणे चरणः पादः । “सृ-पृप्रथि -" (उ० ३४७) इति अमे चरमः । “भू-- " ( उ० ४६० ) इति णिति इत्रे चारित्रम् ; भावे करणे कर्मणि अधिकरणे च साधुः । “कृ-शृकुटि - " ( उ० ६१९) इति वा णित् इः, चरिः पशुः प्राकारायं च, चारिः पशुभक्ष्यम् । “मि - वहि - " ( उ० ७२६) इति वा णित् उः चः स्थाली, तृतीया साक्षाद्योग प्रतिपत्त्यर्थम्, न गम्यमाने इति, अन्यथा करणमन्तरेण क्रियासिद्धेरभावाद् व्यावृत्तिरेव न घटते, नदि चिकिया करणमन्तरेण भवतीति । सह धनेन देवदत्तः सञ्चरतीत्यत्र तु विद्यमानार्थतायां चरतेस्तृतीयान्तेन योगाभाव एव, तत्र हि तृतीयान्तं कत्रैव युक्तं न सञ्चरतिना, नहि तद्धनं चैत्रेण सह सञ्चरतीति ॥
१ अत्र “अडे हि-हनो हो घः पूर्वात्" ४१३४॥ इत्यतः पूर्वादित्यधिकाराद् द्वित्वे सति चोपान्त्यातोऽनोदुः " ४|१|५४ । इति पूर्वमुत्वम् । चर्त्तिरित्यत्र द्वित्वाऽसम्भवाद् द्वित्वाभावेपि दृश्यम् ॥ २ कुरुषु चरति इति अधिकरण एव प्रत्ययः, अनाधारे तु" भिक्षा-सेना - ऽऽदायात् " ५।१।१३९ | इति आरम्भः। आधारादित्येव कुरूंश्चरति, अत्र न्यासकारः प्राप्यात् कर्मणः क्वचिदण् भवतीति यदि अगू आनीयते तदा समासोऽपि भवति, तथा च कुरुचारः पञ्चालचारः इत्यपि' इति आह ॥ ३ सेनया वा चरति सेनाचर इत्यपि विग्रहः ॥ ४ गृहीत्वा इत्यर्थः, द्वितीयविग्रहपक्षे आदानं कृत्वा चरतीत्यर्थः, किमादायेत्यविवक्षैव तत्र ॥ ५ एतद्वचनमेव प्रमाणं गणपाठेऽदर्शनात् ॥ ६ घञि चारः । च संपा १ | ७ चरणं चर्या, चरन्ति अनयेति वा ॥ ८ परिचरणं परिचर्या, परिचरन्ति अनयेति वा । केचित्तु भावे एव मन्यन्ते, यदाह वररुचि: "परिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम्” इति पा० ३ | ३ | १०१। सूत्रस्य वार्त्तिके ॥ ९ गावश्चरन्ति अस्मिन्निति गोचरो देशः, व्युत्पत्तिमात्रं चेदम्, विषयस्य तु सञ्ज्ञा, तेन 'अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम्' ( न्यायावतार ) इत्यादि सियेत् ॥ १० सञ्चरन्तेऽनेन इति सञ्चरः ॥ ११ चरतीति चराचरः, पक्षे चरः ॥ १२ चरन्ति अस्माद् देव-पितृ-भूतानि इवि भीमादित्वादपादाने साधुः-- उणादि ७२६ सूत्रत्रुतौ ।