________________
आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे ते गतो ग्रामम् , पक्षे कर्मणि गतो ग्रामः । “नाम्नो गमः खड्डौ च विहायसस्तु विहः" ५।१।१३१॥ प्रवङ्गः प्रवगः, विहङ्गमः विहङ्गः विहगः, उरगः, पृषोदरादित्वात् सलोपः । “श-कम-"५।२।४०। इति उकणि गामुकः । निपातनात् गत्वरः । “दिद्युद्ददृद्-" ५।२।८३। इति क्विपि जगत् । “युवर्ण-"
५।३।२८। इति अलि गमः । “न ख्या-"२।३।९०। इति प्रतिषेधात् "स्वरात्" २।३।८५।इति “णेर्वा" 5 २।३।८८। इति च णत्वाभावे प्रगमनम् , प्रगमना । “गोचर--'" ५।३।१३१। इति घे निगच्छन्ति
तत्र तेन वा निगमः पुटभेदनं शास्त्रं च । “पुन्नाम्नि--" ५।३।१३०। इति बाहुलकाद् घे आगमः । उणादौ “गम्यमि-” (उ०९२) इति गे गङ्गा । “विदन-" (उ०२७५) इति निपातनात् अने गगनम् । “जि-भृ-सू-” (उ० ४४७) इति त्रटि वृद्धौ च गान्त्रं मनः । “गमेरा च” (उ० ४५३)
इति त्रे गात्रम् । “कृसि-कम्यमि-" (उ० ७७३) इति तुनि आगन्तुः । “द्यु-गमिभ्यां डोः” (उ० 10 ८६७) गौः । “गमेरिन्" (उ० ९१९) गमी, “आङश्च णित्” (उ० ९२०) आगामी, गेम्यादित्वाद् भविष्यति साधू । “गमेर्डिद् द्वे च" (उ० ८८५) इति कर्तरि जगत् , जगती ।
अथ यान्ता अष्टौ सेटश्च३९७ हय ३९८ हर्य क्लान्तौ च । चकाराद् गतौ। हयति। जहाय । “व्यञ्जनादे:-" ४।३।४७॥ इति वा वृद्धः "न श्वि-जागृ-' ४।३।४९। इति प्रतिषेधात् अहयीत् । इटि हयिता, 15 हयितुम् । अचि हयः, गौरादित्वाद् ड्याम् हयी । किपि "वोः-" ४।४।१२१। इति यलुक्यपि
"अतः” ४।३।८२। इत्यल्लुगित्येके, सुपूर्वस्य सु। क्तौ "दस्तड्डे" १।३।४२। इति ढलुकि पूर्वदीर्घ च सूढिः, केवलस्य तु ढिः। उणादौ "ऋ-पृ-नहि-" (उ० ५५७) इति उषे हयुषा ओषधिः ॥ हर्य। हर्यति । जय । हर्यिता । हर्यितुम् । मनि सुहर्मा । वनि सुहर्वा । क्विपि विचि वा सुहः॥
३९९ मव्य बन्धने। मव्यति। ममव्य । मव्यतीति विप् “य्वोः-" ४।४।१२१। इति यलुक्, 20 "अनुनासिके च-" ४।१।१०८। इति वस्य ऊट, ततः “उटा" १।२।१३। इत्यौत्वे मौः, लाक्षणि
कत्वाच्च "मव्यवि-" ४।१।१०९। इत्युपान्त्येन सह ऊडभावः । मन्यितः मन्यितवान् । क्ते सेट्त्वात् "क्तेटो-" ५।३।१०६। इति अः, मव्या। तिकि मौतिः ॥
४०० सूर्य ४०१ ईय ४०२ ईर्ण्य ईर्ष्यार्थाः । सूर्ध्य दन्त्यादिः। ईर्ष्या कामजमसहनम् । सूर्यति । सुसूर्य । सूयिता । मनि यलुकि सुसूर्मा । वनि सुसू. । “क्रुद्-द्रुहेा-२।२।२७। इति 25 सम्प्रदानत्वे चतुर्थ्याम् चैत्राय सूर्यति । क्विपि यलुकि सौ “पदस्य" २।१।८९। इति षलोपे “रात्सः" २।१।९०। इति नियमात् लुगभावे सूर्छ । क्तयोः सूक्ष्यितः, सूयितवान् ॥ ईj । ईर्श्यति ।
१ कथं तर्हि गन्त्री ? 'गम्' धातोः “ट्” (उ०४४६) इति त्रटि भविष्यति ॥ २ "वर्त्यति गम्यादिः" ५.३।१। इति सूत्रेण ॥ ३ ह्य गतौ इत्येके, भक्ति-शब्दयोरपौत्यन्ये। ये गति-कान्त्योः इत्यपरे।। ४ प्रथमैकवचनम् । ५ ति क्विपि सं१ सं२ प्र. तपा० ॥ ६ अत्र दन्त्यादित्वाद् न षत्वम् इति चन्द्रप्रभा । अयं भावः-"नाम्यन्तस्थाकवर्गात् पदान्तः कृतस्य सःशिड्नान्तरेऽपि" २।३।१५। अत्र सूत्रे कृतस्येति पाठात् इह च सकारस्याकृतत्वान्न षत्वम् । केचित्त "सुपूय" इति मन्यन्ते ॥ ७ अत्र किपि यलकि च