________________
५१
परस्मैधातवः ३८७-३९६] स्वोपझं धातुपारायणम् । इटि स्तमिता, स्तमितुम् । णौ स्तमयति । षोपदेशत्वात् तिष्टमयिषति । अचि स्तमः । स्तन-धनस्वन-स्यमू-पम-ष्टमान् षडप्यदन्तान् सभ्या अभ्युपागमन् ॥
३९१ अम शब्द-भक्त्योः । भक्तिर्भजनम् । अमति । आम आमतुः आमुः। "अमोऽकम्यमि-" ४।२।२६। इत्यत्र अमो वर्जनाद् णिगि हूस्वाभावे आमयति । “मोऽकमि-" ४।३५५। इति गिति कृतिसृद्धिनिषेधाद् णके अमकः । घनि अमः । आम इति त्वापूर्वस्य पञि, अमण । रोगे इत्यस्य वा णिचि अलि । सेट्वात् अमिता, अमितुम् । "श्वस-जप-" ४।४७५। इति क्तयोर्वा नेट् , अभ्यान्तः अभ्यमितः । “जि-इण्-दृ-क्षि-"५।२।७२। इति इनि अभ्यमनशीलो अभ्यमी। उणादौ "दम्यमि-" (उ० २००) इति ते अन्तः । “चि-जि-शु-" (उ० ३९२) इति रे दीर्घ च आम्रः । "हु-या-मा-" (उ० ४५१) इति । अन्त्रम्। "वृग-नक्षि-" (उ० ४५६) इति अत्रे अमत्रम् । "वन्धि-वहि-" (उ० ४५९) इति इत्रे अमित्रः .. "पा-दा-वमि-" (उ० ५२७) इति शे अंशः। 10 "मा-वा-वद्यमि-" (उ० ५६४) इति से असः । “अमेर्भ-हौ चान्तौ” (उ० ९६२) इति असि अम्भः, अंहः ॥
३९२ अम ३९३ द्रम ३९४ हम्म ३९५ मीमृ ३९६ गम्लं गतौ । अमिरुदाहृत एव । अर्थभेदार्थ तु पुनः पाठः ॥ द्रम। द्रमति । दद्राम । “व्यञ्जनादे:-" ४।३।४७॥ इति वा वृद्धेः “न श्वि-जागृ-" ४।३।४९। इति प्रतिषेधात् अद्रमीत् । “द्रम-क्रमो यङः" ५।२।४६। 15 इति अने दन्द्रमणशीलो दन्द्रमणः । इटि द्रमिता, द्रमितुम् । उणादौ "कल्यनि-" (उ०४८१) इति इले द्रमिलः ॥ - हम्म । "हम्मतिः सुराष्ट्रेषु" [आ०१, ५] इति भाष्याद् द्विर्बद्धो मकारः । हम्मति। जहम्म । इटि हम्मिता, हम्मितुम् । यङि जंहम्म्यते, अत्र "मुरतोऽनुनासिकस्य" ४।१।५१। इत्यत्र अनुनासिकजातिपरिग्रहादतोऽनुनासिकाद् नत्वे पूर्वस्य मुरन्तः । केचित्तु म्यागमं नेच्छन्ति, तन्मते जाहम्म्यते ॥ मीमृ । मीमति । मिमीम । इटि मीमिता, मीमितुम् । यङि मेमीम्यते । 20 ऋदित्त्वाद् णौ के "उपान्त्यस्य-" ४।२।३५। इति हूस्वाभावे अमिमीमत् । अयं शब्देऽपीत्येके ॥
३९६ गम्लं । “गम्-इषद्-" ४।२।१०६। इति छे गच्छति । “समो गमृच्छि-" ३।३।८४। इत्यात्मनेपदे सङ्गच्छते'। जगाम । “गम-हन-" ४।२।४४। इत्युपान्त्यलुकि जग्मतुः । लदित्त्वाद् "लदिद्-धुतादि-"३।४।६४। इत्यङि अगमत् । अनुस्वारेत्त्वाद् नेट् गन्ता, गन्तुम् । “गमोऽनात्मने" ४।४।५१। इतीटि गमिष्यति । “स्कृ-असू-वृ-'" ४।४।८१। इति परोक्षायामिटि जन्मिव जग्मिम; 25 "सृजि-दृशि-" ४१४७८॥ इति थवि वा नेटि जगन्थ, जगमिथ । “गम-हन-" ४।२।४४। इति कसौ वेटि जन्मिवान् जगन्वान् । “गमो वा" ४।३।३७। इति सिजा-ऽशिषोरात्मने वा कित्त्वम् , समगत, अत्रै “यमि-रमि-" ४।२।५५। इत्यन्तलोपः; समगस्त, संगसीष्ट संगंसीष्ट । गत्यर्थाद्वा कर्तरि
१ कर्मणि असति इदम् । कर्मणि सति तु. सङ्गच्छति सुहृदम् ॥ २ थवि वेटि ज° संपा१ वा० ॥ ३ "धुहस्था-" ४।३।७०। इति सिलुक् च ॥ ४ “गत्यर्थाऽकर्मक-पिब-भुजेः" ५।१।११। इति सूत्रेण ॥