________________
आचार्यश्री हेमचन्द्रविरचितं
[भूवादिगणे
णशीलः प्रयामी, आयामी । "सं-नि- व्युपाद्यमः " ५/३/२५ | इति वा अलि संयमः संयामः, नियमः नियामः, वियमः वियामः, उपयमः उपयामः । “नवा कण - " ५।३।४८ । इत्यनुपसर्गाद्वा अलि यमः यामः । तौ यतिः । यपि "वा म: " ४ । २ । ५७ । इति वा अन्तलोपे प्रयम्य प्रयत्य । उदित्त्वात् क्वि वेयत्वामित्वा । ऊदित्त्वं नेच्छन्त्येके । “तिक्कृतौ नाग्नि" ५।१।७१ । इत्यकटि यमकम् । उणादौ " यम्यजि - " ( उ० २८८ ) इति उने यमुना । "हु-या-मा- " ( उ०४५१) इति त्रे यन्त्रम् । " मृदि - कन्दि - " ( उ० ४६५ ) इति अले यमलम् |
५०
३८७ स्यम् शब्दे । स्यमति । " - भ्रम - " ४|१ | २६ । इति वैत्वे स्थेमतुः सस्यमतुः स्येमुः सस्यमुः । “व्ये-स्यमोर्यङि" ४।१।८५ । इति वृति सेसिम्यते । “अमोऽकम्यमि-चमः " ४/२/२६ | इति णौ ह्रस्वे स्यमयति । इटि स्यमिता, स्यमितुम् । ऊदित्त्वात् क्त्वि पेट्, स्यान्त्वा स्यमित्वा । 10 वेट्त्वात् कयोर्नेट्, स्यान्तः स्यान्तवान् । उणादौ “स्यमे सीम् च " ( उ० ४४ ) इति इके सीमि वृक्षः । “स्यमि-कषि–” (उ०४६) इति ईके स्यमीको ' वृक्षः; स्यमेः सिमादेशे च सिमीकः सूक्ष्मकृमिः ॥
३८८ णमं प्रहृत्वे । प्रह्वत्वं नम्रत्वम् । “पाठे - " २ ३ ९७| इति णस्य नत्वे नमति । गोपदेशत्वाद् “अदुरुपसर्गा - " २।३।७७ इति णत्वे प्रणमति । कर्मकर्तरि “एकधातौ - " ३|४|८६ । इत्यात्मनेपदे नमते दण्डः स्वयमेव, अनंस्त दण्डैः स्वयमेव, अत्र “भूषार्थ - " ३।४।९३ । इति प्रति15 षेधात् क्यो ञिश्च न भवति । कर्मणि क्ये नम्यते । ननाम नेमतुः नेमुः । "यमि-रमि-नम्यातः सोऽन्तश्च” ४।४।८६। अनंसीत् अनंसिष्टाम् । “ज्वल -ह्वल - " ४।२।३२। इत्यनुपसर्गस्य णौ वा हस्वे नमयति नामयति ; सोपसर्गस्य तु " अनोऽकम्यमि - " ४ |२| २६ । इति नित्यं ह्रस्वे प्रणमयति, उन्नमयति । यङि नन्नम्यते । यङ्लुपि नन्नमीति नन्नन्ति । अनुस्वारेत्त्वाद् नेट्, नन्तानन्तुम् । तयोः
I
“ यमि रमि - " ४।२।५५ । इत्यन्तलोपे नतः नतवान् । “आसु-यु-वपि - " ५।१।२० । इत्याङ्पूर्वाद् 20 ध्यणि आनाम्यैः । " रम्यजस - " ५|२|७९ | इति रे नमनशीलो नम्रः । उणादौ "नमेन च " (उ० ७२०) इति उः, नाकुऋषिः । “नमेः प् च" ( उ० ८६२ ) इति तृः, नप्ता । “सात्मन्नात्मनून् - " ( उ० ९१६) इति निपातनात् मनि नाम । " अस्" ( उ० ९५२) इति असि नमः ॥
३८९ षम ३९० ष्टम वैक्लव्ये । वैक्लव्यं कातरत्वम् । "7: सो- " २३ ९८ । इति षस्य सत्वे समति । ससाम । इटि समिता, समितुम् । " अमोऽकम्यमि - " ४ |२| २६ | इति णिगि ह्रस्वे सुमयति । 25 अचि समः, “निर्दुः-सुधेः-१ २ ३ । ५६ । इति षत्वे विषमः । षोपदेशत्वात् “णि- स्तोरेवा--"२|३|३७| इति षत्वे सिषमयिषति ॥ ष्टम । “षः सो- " २|३| ९८ । इति षस्य सत्वे स्तमति । तस्ताम ।
"
१ स्यमीकं जलम्, स्यमीका कृमिजातिः ॥ २ केचित् स्यमेः सिम् इति हस्वोपान्त्यमादेशं प्रत्ययस्य व दीर्घत्वमिच्छन्ति तन्मतसङ्ग्रहायेदम् ॥ ३ ननु 'नम्' अकर्मकः तत् कथमस्य कर्मस्थक्रियत्वम् ? उच्यते, अन्तर्भूतयर्थत्वेन सकर्मकत्वाद् दण्डस्य कर्मकर्तृत्वम् । यत्र तु ण्यर्थो नास्ति तत्र कर्तृतैव यथा नमति शाखा वातेन ॥ ४ आनमे च्छन्त्ये ॥