________________
परस्मैधातवः ३८५-३८६] स्वोपझं धातुपारायणम्। , चक्रमणः । “शक-धृष-" ५।४।९०। इति तुमि प्रक्रमते भोक्तुम् , उपक्रमते भोक्तुम् । ऊदित्त्वात् क्त्वि वेट्, क्रन्त्वा क्रान्त्या, अत्र "क्रमः क्त्वि वा” ४।१।१०६। इति वा दीर्घः; पक्षे क्रमित्वा । वेट्त्वात् क्तयोर्नेट् , क्रान्तः क्रान्तवान् । उणादौ "क्रमेः कृम् च वा" (उ० ५३) इति उके कृमुको बन्धनः, क्रमुकः 'पूगतरुः । “क्रमि-तमि-स्तम्भेरिच्च नमेस्तु वा" (उ० ६१३) इति इ:, क्रिमिः । "क्रमि-गमि-क्षमेस्तुमाच्चातः" (उ० ९४२) क्रान्तुं गमनम् तुमर्थश्च ॥ __ ३८६ यम उपरमे । उपरमो निवृत्तिः । “गमिषद्यमश्छः" ४।२।१०६। यच्छति । ययाम । अनुस्वारेत्त्वाद् नेट् , यन्ता । “यमोऽपरिवेषणे--"४।२।२९। इति णौ ह्रस्वे यमयति केशान् , परिवेषणे तु यामयत्यतिथीन् । “यमः स्वीकारे" ३।३।५९। इति उपात् आत्मनेपदम् , उपयच्छते कन्याम्। “आगे यम-हनः स्वेऽङ्गे च" ३।३।८६। आयच्छेते, आयर्च्छते पाणिम् । “समुदाडो यमेरग्रन्थे" ३।३।९८॥ इति फलवत्कर्तर्यात्मनेपदम् , संयच्छते उद्यच्छते आयच्छते रज्जुम् , "ईगितः" ३।३।९५। इत्या- 10 ल्मनेपदापवादस्य "अणिगि प्राणिकर्तृका-" ३।३।१०७। इति परस्मैपदस्यापवादः । “परिमुहाऽऽयमा-" ३।३।९४। इति फलवत्कर्तर्यात्मनेपदम् , आयामयते सर्पम् । “यमः सूर्चने" ४।३।३९। इति सिचः कित्त्वे उदायत उदायसाताम् । “वा स्वीकृतौ" ४।३।४०। उपायत उपायंस्त कन्याम् । “यमि-रमि-नम्यातः सोऽन्तश्च"४।४।८६। अयंसीत् अयंसिष्टाम् । यङि यंयम्यते । यङ्लुपि यंयमीति। "यम-मद-गदोऽनुपसर्गाद" ५।१।३०। इति ये यम्यम् ; उपसर्गात्तु घ्यण् एव आयाम्यम् प्रयाम्यम् । 15 'वाचंयमो व्रते" ५।१।११५। इति निपातनात् खे वाचयमो व्रती, अन्यत्र अणि वाग्यामः । क्तयोः “यरमि-" ४।२।५५। इत्यन्तलोपे यतः यतवान् । “प्राच्च यम-यसः" ५।२।५२। इति घिनणि प्रयम
१ कुटिलं क्रामतीत्येवंशील: चक्रमणः ॥ २ परिवेषणमिह भोजनविषयि परिवेषणं सूर्यादिवेष्टनं च गृह्यते, तद्भिन्न अपरिवेष्टनम् ॥ ३ परिवेषणक्रियया तान् व्याप्नोतीत्यर्थः॥ ४ परिणयतीत्यर्थः, अत्र “उपाद्यमः स्वकरणे" (पा० १।३१५६१) इति सूत्रस्य भाष्ये 'इह कस्माद् न भवति स्वं शाटकान्तमुपयच्छति ? अस्वं यदा स्वं करोति तदा भवितव्यमेव।' इदं भाष्योक्तम्-अस्वस्य स्वत्वेन करणं वृत्तिकार-शिवस्वामिभ्यां प्रसिद्धिषशात् पाणिग्रहणविषयं संस्कृतम् । तथा च काशिकायाम-१।३।५६। 'पाणिग्रहणविशिष्टमिह स्वकरणं गृह्यते न स्वकरणमात्रमिति । माधवीयधातुवृत्तावपि "सामान्येनापि "वार्तिककारेण पाणिग्रहणविशिष्टं स्वकरणं शिवस्वामि-जयादित्यावूचतुः, प्रसिद्धत्वात् 'उपायंस्त नतीः' इत्यादिप्रयोगस्तु साधात् । पाणिग्रहणविशिष्टं स्वकरणमिति मते वेश्यामुपयच्छते इत्यादि न भवति । भाष्यकारेण तु स्वकरणमात्रे विशिष्टे स्थित इत्युक्तम्। भट्रिकाव्ये च 'शस्त्राण्युपायंस्त विजित्वराणि' इति सामान्येन प्रयुज्यते"-पृ. १९६ धातु-९६४॥ ५ दी? भवति व्याप्रियत इति वाऽर्थः ॥६दी/करोतीत्यर्थः । कथं तहिं आयच्छति पादौ देवदत्तस्य इत्यत्र स्वाङ्गत्वात् पादयोः परस्मैपदम् ? उच्यते, अत्र "अविकारोऽवं मूर्त, प्राणिस्थ स्वाङ्गमुच्यते।" इत्यादिलक्षणस्य पारिभाषिकस्वाङ्गस्य प्रतिपत्तिर्मा भूदिति सूत्रेऽसमस्तनिर्देशः॥ ७ ननु "आङो यम-हन:-" ३३१८६। इत्यनेनैव आत्मनेपदे सिद्ध किमर्थ इह आग्रहणम् ? इहागे ग्रहणमस्वाङ्गकर्मकार्थम् ॥ ८ यदा तु कर्चभिप्रायत्वं पदान्तरेण प्रतीयते तदा “पदान्तरगम्ये वा" ३॥३९९। इति स्वान् नीहीन संयच्छतीत्यपि भवति ॥ ९ कश्चिद् 'यमः परिवेषणे'इति पठति तन्मताभिप्रायेण न हस्वः, स्वमते तु भवत्येव आयमयते इत्यादि ॥ १० परेण प्रच्छाद्यमानस्य दोषस्य आविष्करणं सूचनम् ॥ ११ अत्रापि उद्वाहे एवेतीच्छन्त्येके ॥ १२ वाचं यच्छति नियमयति वेति ।
धा० पा०७