________________
आचार्यधीहेमचन्द्रविरचितं
[भूवादिगणे __३८५ क्रम पादविक्षेपे । पदन्यासे । “क्रमो दीर्घः-"४।२।१०९। इति दीर्घ कामति । चक्राम । "क्रमोऽनुपसर्गाद" ३।३।४७। इति वा आत्मनेपदम् , क्रमते कामति । "वृत्ति-सर्ग-तीयने"३।३।४८॥ ऋक्षु अस्य क्रमते बुद्धिः-न प्रतिहन्यते इत्यर्थः; युद्धाय क्रमते-उत्सहते इत्यर्थः; प्राज्ञे शास्त्राणि क्रमन्ते-स्फीतीभवन्तीत्यर्थः । “परोपात्" ३।३।४९। पराक्रमते, उपक्रमते । “वेः स्वार्थे' ३।३। 5 ५०। साधु विक्रमते हंसः । “प्रोपादारम्भे" ३।३।५१। प्रक्रमते उपक्रमते भोक्तुम् । “आङो ज्यो
तिरुद्मे" ३।३।५२। आक्रमते नभोऽर्कः । इटि क्रमिष्यति । "क्रमः' ४।४।५३। इत्यनात्मनेपदे इनियमादात्मनेपदे नेट, प्रक्रसीष्ट, उपक्रंसीष्ट । “तुः" ४।४।५४। इति तृप्रत्यये अनात्मनेपदविषयादिनियमादात्मनेपदविषयाद् नेट् , प्रक्रन्ता. उपक्रन्ता- । “गत्यर्थात् कुटिले" ३।४।११। इति यङि
चक्रम्यते । “व्यञ्जनाद्-" ५।३।१३२। घञि कामन्त्यनेनेति क्रमः, "मोऽकमि-" ४।३।५५। 10 इति वृद्धेरभावः । भावे पनि क्रमः, प्रक्रमः, उपक्रमः । “द्रम-क्रमो यङः" ५।२।४६। इति अने
१ पदविन्यासे संपा१ वा० । पादन्यासे इति तु प्र० मु० ।। २ ननु अनुपसर्गात् इति कोऽयं समासः? तत्पुरुषो बहुव्रीहिः वा? बहुव्रीहिरेवायम् , यदुक्तं बृहदवृत्तौ-अविद्यमानोपसर्गात् कमेरिति । लघुन्यासकारैरपि अभिहितम् अविद्यमानोपसर्गादिति बहुव्रीहिरयम् । यदि पुनर्न उपसर्गोऽनुपसर्ग इति तत्पुरुषो विधीयते तदा उपसर्गादन्योऽनुपसर्गस्तस्मात् परो यः क्रमिस्तत इति प्रतिपत्ती केवलात् न स्यात, प्रसन्याश्रयणे तु असमर्थसमासः कष्टः स्यादिति ॥ ३ वृत्तिः अप्रतिबन्धः आत्मयापनं वा सर्गः उत्साहः तात्पर्य वा, सर्गेणातिसर्गस्य लक्षणादनुज्ञा वा, तायनं स्फीतता संतानः पालनं वा ॥ ४ आत्मानं यापयति ॥५ तत्परोऽनुज्ञातो वा इत्यर्थः ।। ६ "वृत्ति-सर्ग-तायने" ३३१४८। इत्येव सिद्धे "परोपात्" ३।३।४९। इत्यारम्भान्नियमाद्वाऽन्योपसर्गाद् न भवति, तेन संक्रामतीति परस्मैपदमेव, णौ क्रमयति अचिक्रमत् इत्यादि । ननु तर्हि कथं सकामयतीति ? सकामन्तं करोतीति शत्रन्ताण्णिचि भविष्यति। "अन्ये तु "मितां हस्वः” (पा० ६।४।९२१) इत्यत्र वा अनुवर्त्तयन्ति, सा च व्यवस्थितविभाषा, तेन सङ्कामयतीत्येवमादि सिद्धं भवति इत्युक्तं माधवीयधातुवृत्तौ-पृ. ९६ धातु- ४६९ सच . निन्दित इति तत्रैवोक्तम् , सङ्क्रमयतीति अविगीत इति कथनेन "रसातले सक्रमिता" इत्यादिप्रयोगोऽप्यनुकूलः । इति॥७स्वार्थः पादविक्षेपः, तेन अश्वेन विक्रामति इत्यत्र न भवति। नन्वत्र पादविक्षेप एव ऋमिवर्तते, स च कर्तृकृत : करणकृतो वा भवतु, सत्यम् , “गौण-मुख्ययोः" इति न्यायात् सर्वकारकप्रधानभूतः-कर्तृकृत एव गृह्यते अत्र तु करणकृतः पादविक्षेप इति न भवति । विक्रामति राजा उत्सहते इत्यर्थः, अत्र "परोपाद" ३।३।४९। इत्येवेति नियमा "वृत्ति-सर्ग" ३॥३॥४८॥ इत्यादिनाऽपि न भवति ।। ८ सुष्ठ पदानि विक्षिपतीत्यर्थः । अश्वादीनां गतिविशेषोऽपि क्रम इति ॥ ९ आरम्भ आदिकर्म। अङ्गीकरणं चेत्यन्ये। एके तु स्वार्थविषय एवारम्भे मन्यन्ते, तेनोपक्रमते प्रक्रमते-पादाभ्यां गन्तुमारभते इत्यर्थ इत्यत्रैव भवति । स्वार्थविषयारम्भादन्यत्र तु प्रक्रामति उपनामति भोक्तुमित्यत्र न भवति, इति बृहवृत्तौ ॥ १० ज्योतिषां चन्द्रादीनामुद्गमे ऊर्ध्वगमने प्रधाने उपसर्जने वा वर्तमानात् ॥ ११ उदयते इत्यर्थः, दिवमाक्रममाणेन केतुना. अत्र दिवमिति कर्मणा योगादुद्गमनोपसर्जनव्याप्तिवचन: कमिः, केतुर्ग्रहः । ज्योतिरुद्गम इति वचनात् आक्रामति धूमो हर्म्यतलम्-उद्गच्छन् व्याप्नोतीत्यर्थः, उद्गमनपूर्विकायां व्याप्तौ अत्रापि कमिरिति द्वितीया। कैयटस्तु उद्गमने वर्तमानोऽयमकर्मकस्तेन आक्रामति धूमो हHतलात् इति पन्यते- मा० धा० ऋ० पृ. ९६। १२ प्रक्रन्ता, उपक्रन्ता इत्यत्र "प्रोपादारम्भे-"३।३।५१। इत्यात्मनेपदम् । अनात्मनेविषयत्वे तु क्रमिता इत्यादि, सायणस्तु 'अनुपसर्गात् कमेः कन्ता ऋमिता इत्युभयमपि भवति, "अनुपसर्गाद्वा" (पा. ११३॥ १३) इति विकल्पेनात्मनेपदविषयादित्येके' इति पठति च। क्रमितेति, "क्रमोऽनुपसर्गात्' ३॥३॥४७॥ इति विकल्पनात्मनेपदविण्यत्वात् कन्तेत्यपि, “तुः" ४।४।५४। इति सूत्रस्य न्यासे कनकप्रभसुरयोऽपि ।