________________
परस्मैधातवः ३५१-३८४ ]
स्वोपज्ञं धातुपारायणम् ।
३७७ शुम्भ भाषणे च । चकारात् हिंसायाम् । भासने चेत्यन्ये । तालव्यादिः । शुम्भति । शुशुम्भ । के सेट्त्वात् “तेटो - " ५ | ३ | १०६ ॥ इति अः शुम्भा शोभेत्यर्थः । शुभ शुम्भत् शोभार्थे शुभति । षोपदेशोऽयमिति गुप्तः, सुम्भति । कुपूर्वादचि कुसुम्भः । लक्ष्यं चै ।
“सावष्टम्भनिशुम्भसुम्भन ० " [
] इति ।।
४७
।
३७८ ये ३७९ जभ मैथुने । मिथुनस्य कर्मणि भावे वा । आद्योऽन्तस्थादिरन्यश्च चव - 5 र्गादिः । यभति । “क्रियाव्यतिहारे - " ३।३।२३ । इत्यात्मनेपदे व्यतियभते । क्ये यभ्यते । ययाभ येभतुः येभुः। अनुस्वारेत्त्वाद् नेट्, यब्धा, यब्धुम् । घञि याभः । “शकि- तकि-" ५।१।२९। इति ये यभ्यम् ॥ जभ | "जभः स्वरे " ४ । ४ । १०० । इति ने जम्भति । जजम्भ । इटि जम्भिता, जम्भितुम् । णके जम्भकः । घञि जम्भो वर्तते । “शकि- तकि - " ५|१|२९| इति ये जभ्यम् । “गु-लुप - " ३।४।१२ । इति गह्यर्थाद् यङि "जप-जभ - " ४|१/५२ ॥ इति पूर्वस्य स्वागमे च जञ्जभ्यते । क्तयोरिटि नागमे नलुकि च जभितः जभितवान् । जभै गात्रविनामे जम्भते ॥
10
अथ मान्ताः सप्तदश यमूं-णमंगलं वर्जाः सेट -
३८० चम् ३८१ छम् ३८२ जनू ३८३ झम् ३८४ जिमू अदने । पञ्चाप्यूदितः । “ष्ठिवूक्लम्वा–” ४।२।११० । इति दीर्घत्वे आचामति । आङ्पूर्वस्यैव दीर्घत्वविधानात् चमति, उच्चमति, विचमति । आचचाम । " अमोऽकम्यमि - " ४।२।२६ | इति णौ ह्रस्वाभावे चामयति, आचामयति । 15 आसु-यु-वपि - " ५।१।२० । इति घ्यणि आचाम्यैम् । “मोऽकमि - " ४।३/५५ । इत्यत्र आमो नाद् वृद्धिनिषेधाभावे णके आचामकः । घञि आचामः । ऊदित्त्वात् क्त्वि वेट् चान्त्वा चमित्वा । वेदत्वात् क्तयोर्नेट्, आचान्तः आचान्तवान् । उणादौ "ऋच्छि चटि - " ( उ० ३९७) इति अरे चमरः । प्रज्ञाद्यणि चामरैः । “तप्यणि - " ( उ० ५६९) इति असे चमसः सोमपात्रम्, गौरादित्वाद् ड्याम् चमसी मुद्गादिभित्तकृता । “कृषि चमि - " ( उ० ८२९) इति ऊः छमति । चछाम । “अमोऽकम्यमि - " ४ |२| २६ ।
1
I
20
छान्त्वा ॥
चमूः । छमू । इति णौ हस्वे छमयति । ऊदित्त्वात् छमित्वा जमू । जमति । जाम । णौ ह्रस्वे जमयति । ऊदित्त्वात् जमित्वा, जान्त्वा ॥ झमू । झमति । जझाम । झमयति । झमित्वा झान्त्वा । उणादौ " झमेझ : " ( उ० १३७) झन्झा ॥ जिमू । जेमति । अनटि जेमनम् । घञि जेमः । ऊदित्त्वात् जीन्त्वा, पक्षे “ वौ व्यञ्जनादेः - " ४|३| २५ । इति वा कित्त्वे जिमित्वा जेमित्वा ॥
25
१ हिंसायामेव इति देव- मैत्रेयादयः॥ २ दुर्ग- धनपाल-शाकटायनाः ॥ ३ “गुप्तस्तु 'सावष्टम्भनिषुम्भसम्भ्रमनमद्भूगोल' इत्यादिदर्शनाद् मूर्धन्यादित्वमाह ” - मा०धा०० पृ० ८८ धातु - ४३० ॥ ४ यम विपरीत मैथुने - विपरीतानुष्टान इत्यर्थः इति मैत्रेयः, पुरुषकारे तु विपरीतमैथुने इति विपरीतयभने इति" - मा०धा०वृ० पृ० १९१ धातु- ९६१ ॥ जभं च न पठन्ति पाणिनीया इति ।। ५ उपसर्गरहितस्य " मोऽकमि· यमि-रमि-नमि-गमि-वम् - आचमः ४।३।५५। इति वृद्धिप्रतिषेघे ध्यणि ये च न विशेष इति सोपसर्गस्योदाहरणम् ॥ ६ चामरम् वा० संपा१ प्र० ॥ ७ भित्तम् - शकलम् - खण्डम् । " चमसी पिष्टवतिः " - अभिधान ०३, ६४ " मुद्गादीनां पिष्टस्य वर्तिः " - अभि०
""
०