________________
आचार्यश्रीहेमचन्द्रविरचित
[भूवादिगणे सप्तदशाप्येते गत्यर्थाः। फान्तास्त्रयोऽपि हिंसायामिति कण्वः । वर्फति ॥ ' [रफ।] रफति ॥ रफु । उदित्त्वाद् ने रम्फति ।। ___ अथ बान्ता अष्टादश सेटश्च
- अर्ब । अर्बति । "अनातो-" ४।१।६९। इत्यात्वे ने च आनर्ब ॥ कर्व। कवति। उणादौ 5 "दिव्यवि-" (उ० १४२) इति अटे कर्बट क्षुद्रपत्तनम् । “वाश्यसि " (उ० ४२३) इति उरे
कर्बुरः ॥ खर्ब । खर्बति । अचि खर्बः ॥ गर्व । गर्बति । घञि गर्बः॥ चर्व । चर्चति । पनि चर्बः । अनटि चर्वणम् ॥ तब । तर्बति । नर्व । नर्बति ॥ पर्व । पर्वति ॥ वर्ब । ओष्ठ्यादिः । बर्बति । उणादौ "ऋच्छि-चटि-" (उ० ३९७) इति अरे बर्बरः, बर्बरी कुञ्चिताः केशाः॥ शब। तालव्यादिः । शर्बति ॥ पापोपदेशः । “पः सो-' २।३।९८॥ इति षस्य सत्वे 10 सर्बति । पोपदेशत्वाद् “णिस्तोरेवा-" २।३।३७॥ इति षत्वे सिपर्वयिषति ॥ सर्व । सर्वति । सोप
देशत्वात् षत्वाभावे सिसर्वयिषति ।। रिबु । उदित्त्वाद् ने रिम्बति ॥ रखु । उदित्त्वाद् ने रम्बति । अचि रम्बः, करम्बः । क्ते करम्वितः । घईत्यपि केचित् पठन्ति, स पुनरनार्षत्वादुपेक्षितः । अत्यादौ रेफस्थाने नकारं कौशिका मन्यन्ते ॥
३६८ कुबु आच्छादने । उदित्त्वाद् ने कुम्पति । “भीषि-भूषि-" ५।३।१०९। इति 15 णौ अङि कुम्बा । कुबुण आच्छादने कुम्बयति ॥
३६९ लुबु ३७० तुबु अर्दने। उदित्त्वाद् ने लुम्बति । उणादौ ण्यन्तात् “स्वरेभ्य इ:-" (उ० ६०६) इति इः, लुम्बिः ॥ तुबु । उदित्त्वाद् ने तुम्बति । अचि गौरादित्वाद् ड्याम् तुम्बी । लुबु तुबुण अर्दने, लुम्बयति, तुम्बयति ॥
३७१ चुबु वक्त्रसंयोगे । वक्त्रेण सम्बन्धः। “नमस्तुङ्गशिरश्चुम्बि-" [हर्षचरिते] इत्युपचारात् । 20 उदित्त्वाद् ने चुम्बति । चुचुम्ब । चुम्बितुम् ॥
अथ भान्ता अष्टौ यभंवर्जाः सेटश्च-- ३७२ सृभू ३७३ सृम्भू ३७४ त्रिभू ३७५ षिम्भू ३७६ भर्भ हिंसायाम् । आधास्रयो दन्त्याद्याश्चतुर्थः षोपदेशः । सर्भति । सिसर्भयिषति । ऊदित्त्वात् क्वि वेद, सृब्ध्वा सर्भित्वा ॥
सृम्भू । सृम्भति । सिसृम्भयिषति । ऊदित्त्वात् सृब्ध्वा सृम्भित्वा ॥ त्रिभू । सेभति । 25 सिनेम सिस्रिमतुः सिस्रिभुः । सिस्रेभयिषति । ऊदित्त्वात् सिब्ध्वा, पक्षे "वौ व्यञ्जनादे:-"४।३।
२५। इति इटि वा कित्त्वे निमित्वा सेभित्वा। सनि सिसिभिषति सिभिषति । क्त्वि वेट्त्वात् तयोर्नेट् सिब्धः सिब्धवान् ।। पिम्भू । “षः सो-' २।३।९८। इति षस्य सत्वे सिम्भति । पोपदेशत्वाद् “नाम्यन्तस्था-" २।३।१५। इति षत्वे सिषिम्भ । ऊदित्त्वात् सिब्ध्वा सिम्भित्वा । वेट्त्वात् क्तयोर्नेद, सिब्धः सिब्धवान् ॥ भर्भ । भर्भति । बभर्भ । इटि भर्भिता ।