________________
४४
आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे ५।१।१०८। इति निपातनात् खे द्विषन्तपः, परन्तपः । "भृ-वृ-जि-" ५।१।११२। इति खे सर्वन्तपः । उणादौ “अम्" (उ० ९५२) इति असि तपः तपसी ॥ धूप । स्वार्थे आये धूपायति । अशिति धूपायाञ्चकार दुधूप । धूपायिता, पक्षे नित्यमिटि धूपिता। धूपण भासार्थः धूपयति ॥
३३५ रप ३३६ लप ३३७ जल्प व्यक्ते वचने ।रपति । राप रेपतुः रेपुः । रपिता, रपितुम् । 6 "आसु-यु-वपि-" ।।१।२०। इति ध्यणि राप्यः, अभिराप्यः ॥ लप । लपति । ललाप लेपतुः
लेपुः । लपिता, लपितुम् । ध्यणि लाप्यः, अभिलाप्यः । करणेऽनटि लपनं मुखम् । क्ते लपितम् । घमि आलापः, संलापः, प्रलापः । "मथ-लपः" ५।२।५३। इति घिनणि प्रलपनशीलः प्रलापी ॥ जल्प। जल्पति। जजल्प । “क्रियाव्यतिहारे-" ३।३।२३। इत्यत्र शब्दार्थवर्जनान्नात्मनेपदम् ,
व्यतिजल्पति । “वृङ्-भिक्षि-" ५।२।७०। इति टाके जल्पाकः, जल्पाकी । घञि जल्पः ॥ 10 ३३८ जप मानसे च । मनोनिर्वत्र्ये वचने । चकाराद् व्यक्ते वचने । जपति । जजाप जेपतुः
जेपुः । इटि जपिता । “ग-लुप-" ३।४।१२। इति यङि गर्हितं जपति जञ्जप्यते, अत्र “जप-जभ-" ४।१।५२। इति पूर्वस्य मुरन्तः । “कृ-वृषि-मृजि-" ५।१।४२। इति वा क्यपि जप्यम् , पक्षे व्यणि जाप्यम् , विकल्पबलादेवात्र पैवर्गलक्षणो यो न भवति । "शोकापनुद-" ५।१।१४३। इति निपा
तनात् के कर्णेजपः सूचकः, "अमूर्ध-मस्तका-" ३।२।२२। इति सप्तम्या अलुप् ; अन्यत्र तृचि करें16 जपिता मन्त्री । "श्वस-जप-" ४।४।७५। इति क्तयोर्वा नेट् , जप्तः जपितः । “यजि-जपि-"५।२।४७/
इति यङन्ताद् ऊके जञ्जपूकः। “व्यध-जप-" ५।३।४७। इत्यनुपसर्गाद् अलि जप्यते इति जपः । सोपसर्गाद् घञि उपजापः ॥
३३९ चप सान्त्वने । चपति । चचाप चेपतुः चेपुः। अचि चपो वंशः तस्य विकारः चापं धनुः । उणादौ "दिव्यवि-" (उ० १४२) इति अटे चपटो विपुलः । “चपेरेटः” (उ० १५८) 20 चपेटः । “मृदि-कन्दि-" (उ० ४६५) इति अले चपलः ।।
३४० पप समाये । “षः सो-" २।३।९८। इति षस्य सत्वे सपति । ससाप सेपतुः सेपुः । इटि सपिता, सपिप्यति । षोपदेशत्वाद् "णि-स्तोरेवा-" २।३।३७। इति षत्वे सिपापयिपति । येषां तु नायं षोपदेशस्तेषां षत्वाभावे सिसापयिषति । उणादौ "प्लु-ज्ञा-यजि-" (उ० ६४६) इति तौ सप्तिः
१ नन्वत्रोपपदे द्विषतुशब्दो द्विषतीशब्दो वा? यद्वा 'नामग्रहणे लिङ्गविशिष्टस्यापि' इति न्यायात् उभपोरपि प्रहणम् ! उच्यते, लिविशिष्टपरिभाषाया अनित्यत्वात् द्विषच्छब्दोपपदोऽयम् न तु द्विषतीशब्दोपपदः, यद्वा 'निपातजस्येष्टविषयत्वात् नियामनभिधानम्'इति बृहदवृत्तौ श्रीहेमचन्द्रसूरयः। द्विषतीशब्दे तु "कर्मणोऽण" ५।३।१४। इत्यणि द्विषतीतापः, अण्यन्तस्य तु द्विषत्तापः परताप इति ॥ २ एतनामा कश्चित् ॥ ३“करणाऽऽधारे" ५।३।१२९। इति अनट् ॥४"शकि-तकि-चति-यति-शसि-सहि-यजि-भजि-पवर्गात्" ५।१।२९। इति सूत्रेण विशेषाभावात् ध्यण् तु भवत्येव विकल्पसामर्थ्यात् ॥५"चपो वृक्षः इति मैत्रेयः, वेणुविशेष इति दण्डनाथः" -माधा०व०पृ० ८७ धातु-३९६ । ६ “समवायः सम्बन्धः सम्यगवबोधो वा"-मा० धावृ०पृ. ८७ धातु-३९७।