________________
परस्मैधातवः ३२९-३३४] स्वोपर्श धातुपारायणम् ।
अथ पान्ताः पञ्चदश, गुपौ वेद, तपं सुप्लं अनिटौ, शेषाः सेटः -
३३२ गुपौ रक्षणे । “गुपौ-धूप-"३।४।१। इति स्वार्थे आयः, गोपायति । "अशवि ते वा" ३।४।४। इति वा आये गोपायाञ्चकार, जुगोप । गोपायिता, पक्षे औदित्त्वाद् वेटि गोप्ता गोपिता । "कुप्य-भिद्योध्य-" ५।१।३९। इति निपातनात् क्यपि कुंप्यं सुवर्ण-रजताभ्यामन्यद् धनम् , अन्यत्र "शकि-तकि-"५।१।२९। इति ये गोप्यम् । आये “शंसि-प्रत्ययात्" ५।३।१०५। इति अः गोपाया, 6 पक्षे क्तौ गुप्तिः । गुपि गोपन-कुत्सनयोः जुगुप्सते । गुपच् व्याकुलत्वे गुप्यति । गुपण भासार्थः गोपयति, गोपना ॥
३३३ तपं ३३४ धूप सन्तापे । तपति । “निसस्तपे-' २।३।३५। इति षत्वे निष्टपति । "ब्युदस्तपः" ३।३।८७॥ इत्यात्मनेपदम् , वितपते उत्तपते; वितपति उत्तपति पृष्ठम् । तताप तेपतुः तेपुः। यङि तातप्यते । यङ्लुपि तातपीति तातप्ति । अनुखारेत्त्वाद् नेट् , तप्ता, तप्तुम् । “तपेस्तपः- 10 कर्मकात्" ३।४।८५। इति कर्तयात्मनेपदं क्यश्च, तप्यते तपः साधुः-1 अर्जयतीत्यर्थः । अतप्त तपः साधुः, + । अत्र "तपः क तापे च" ३।४।९१। इति जिन भवति । अन्ववातप्त पापः पापेन कर्म
णा, अत्रानुतापे जिज् न भवति। "नन्द्यादिभ्यः" ५।१।५२। इत्यने तपनः । “शकि-तकि-"५।१। ' २९। इति ये तप्यम् । “ललाट-वात-"५।१।१२५। इति खशि ललौटन्तपः । “द्विषन्तप-परन्तपौ"
. १ गुपौ इति औकारो गुपि गोपने इत्यस्य निवृत्त्यर्थः यड्लनिवृत्त्यर्थश्च । गुपण भासार्थः गुपच व्याकुलत्वे भनयोश्च कथम् ? अनयोस्तु धूपसाहचर्यात् निरासः। ननु धूप चुरादिरप्यस्ति, सत्यम् , अणिजन्तविच्छसाहचर्यात् भौवादिकस्यैव ग्रहणम् । ननु विच्छिरपि भासार्थः चुरादिस्तत् कथं तेन साहचर्यम् , सत्यम् , तस्य अणिजन्ताभ्यां पणि-पनिभ्यां साहचर्यान्निरासः । ननु यङ्प्रत्ययस्य प्राप्तिरेव नास्ति आयप्रत्ययेऽनेकस्वरत्वात् तत् कथं 'यङ्लुनिवृत्त्यर्थश्च' इत्युक्तम् , सत्यम् , अशविषये विकल्पितस्याऽऽयस्य प्रथमं यहि 'प्रकृतिग्रहणे यलुबन्तस्यापि' इति न्यायात् प्राप्तिः ॥२ ननु आयस्यादन्तत्वाभावेऽपि गोपायति इत्यादि सिध्यति किमदन्तकरणेन ? सत्यम् , आयस्यादन्तत्वाभावे अजुगोपायत् इत्यादिस्थाने "उपान्त्यस्या-" ४।२।३५। इति इस्वत्वे अजुगोपयदित्याद्यनिष्ट स्यात् इत्यदन्तकरणफलम् ॥ ३ गोपाय्यते तत् इति गुपेः क्यप् आदेः कत्वं च ॥ ४ "आतू" २।४।१८। इत्याप् सं१ टि. ॥ ५ सदनि स्पर्शयतीत्यर्थः। अनासेवायामिति किम् ? निस्तपति-पुनः पुनः तपति इत्यर्थः। कथं तर्हि 'निष्टतं रक्षः, निष्टप्ता अरातयः' इति ! अत्र सदप्यासेवनं न विवक्ष्यते इति । 'निरतपत्' इत्यत्र कथं न षत्वम् ? उच्यते, अत्र पूर्व छतमपि षत्वं परस्मिन्नडागमे "णषमसत्-" २।१।६०। इत्यनेनासिद्धम् इति ।। ६ इति सूत्रेण अकर्मकात् स्वाङ्गकर्मकाच । अकर्मकत्वं चास्य दीप्यते ज्वलति भासते रोचते इत्येषु अर्थेषु । यथा-वितपते रविः, दीप्यते-सामान्येन दीप्तो भवति; ज्वलति-ज्वालावान् भवति, भासते-उद्भूतरूपो भवति, रोचते-किरणवान् भवति इत्यर्थाः । स्वेऽङ्गे उत्तपते वितपते पाणिम् - तापयतीत्यर्थः । यदा अयमश्वाङ्गकर्मकस्तदा उत्तपति सुवर्ण सुवर्णकारः-द्रवीकरोतीत्यर्थः इत्येव भवति ॥७"अत्र तपतेरर्जनमर्थ इति । साधुस्तत्र कर्ता, यत्रातौ-साधुः-कर्म 'उपवासादीनि तपांति साधु सन्तपन्ति' इति, तत्र तपिर्दुःखानुभावनार्थ इति कर्मणस्तपसो व्यापारो दुःखजननमिति क्रियाभेदाद्विध्यर्थमेतद्-मा० धा८७० पृ० १९७ धातु-९६५।८ स्वस्तिकमध्यगतः पाठः संपा१ नास्ति ।। ९नन्वनेन सामान्येन सानुतापेऽननुतापे च कर्तरि कर्मकर्तरि च भविष्यति किमनुतापग्रहणेनेति ! सत्यम् , अनुतापग्रहगं भावे कर्मणि चार्थम् , तेन कर्मकर्तरि अन्ववातप्त कितवः स्वयमेव, कर्तरि अतप्त तपांसि साधुः, भावे अन्वतप्त चैत्रेण पश्चात्तपनं कृतमित्यर्थः॥ १० पश्चात्ता कारित इत्यर्थः । अनुतापादन्यत्र उदतापि सुवर्ण सुवर्णकारेण इति जिचा भवितव्यमेव ॥ ११ "खित्यनव्ययाऽरुषो मोऽन्तो इस्वच" ३२।१११। इति मोऽन्तः ॥