________________
आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे व्यष्वणत् अवाष्वणत् : अशनादन्यत्र न षत्वम् , विस्वनति मेघः । परोक्षायां "न-श्रम-" ४।१।२६। इति वैत्वे स्वेनतुः सस्वनतुः। अवतंसने घटादित्वाद् णौ ह्रस्वे स्वनयति, अन्यत्र स्वानयति । सेट्त्वात् स्वनिता, स्वनिष्यति । "नवा क्वण-"५।३।४८। इति वा अलि स्वनः स्वानः ।
"क्षुब्ध-विरिब्ध-" ४४७०। इति.मनसि क्ते नेट् , स्वान्तं मनः, स्वनितमन्यत् । "श्वस-जप-" 5 ४।४।७५। इति आङ्पूर्वात् क्ते वा नेट् , आस्वान्तः आस्वनितो मृदङ्गः, आस्वान्तम् आस्वनितं
मनः । “नेनंद-"५।३।२६। इति वा अलि निस्वनः निस्वानः ॥ वन । वनति । ववान । यङि वंवन्यते । यङ्लुपि वंवनीति, तैसि वंवान्तः । “यमि-रमि-"४।२।५५। इत्यत्र वनतीति तिव्निर्देशात् नलोपाभावे "अहन्पञ्चम-" ४।१।१०७। इति दीर्घत्वम् । इटि वनिता, वनिष्यति । अचि
मृग-विहगशब्दैर्वनतीति वनम् ॥ 10 ३२९ वन ३३० पन भक्तौ । भक्तिर्मजनम् । वनिः अर्थभेदार्थ पुनरिहाधीतः । वनति । अनटि
संवननम् । क्तौ “यमि-रमि-"४।२।५५। इाते नलोपे वतिः । तिकि "न तिकि-"४।२।५९। इति दीर्घ-नलोपाभावे वन्यात् वन्तिः । ते वनितम् , वनिता। उणादौ "जठर-क्रकर-"(उ० ४०३) इति निपातनात् अरे वानरः। “नि-वपिभ्यां णित्" (उ० ४२१) इति ईरे वानीरः। वनूयि याचने
वनुते ॥ पन । “पः सो-"२।३।९८। इति सत्वे सनति । ससान सेनतुः सेनुः । “ये नवा" 16 ४।२।६२। इति वा आत्वे सायते सन्यते । यङि सासायते संसन्यते । यङ्लुपि. संसनीति, तसि "आः
खनि-"४।२।६०। इति आत्वे संसातः । इटि सनिता, सनिष्यति । सनि “इवृध-"४।४।४७। इंति वेटि सिसनिषति, "णि-स्तोरेवा-"२।३।३७। इति नियमादत्र न षत्वम् ; “सनि" ४।२।६१। इत्यात्वे सिषासति, अत्र षोपदेशत्वाद् “नाम्यन्तस्था-" २।३।१५। इति षत्वम् । णौ असीषणत् । क्तौ
"आः खनि-"१२।६०॥ इत्यात्वे सातिः । तिकि "तौ सनस्तिकि"४।२।६४। इति वा आत्व-नलुकोः 20 सातिः सतिः, पक्षे “अहन्पञ्चमस्य-" ४।१।१०७। इति दीघे सान्तिः, तदेवं सनतेस्तिकि त्रैरू
प्यम् । उणादौ "कृ-वा-पा-जि-"(उ०१) इति उणि सानुः । षणूयी दाने सनोति सनुते, तिकि सातिः सतिः, पक्षे तनादित्वाद् "न तिकि दीर्घश्च" ४।२।५९। इति दीर्घ-नलुगभावे सन्तिः ॥ __३३१ कनै दीप्ति कान्ति-गतिषु । दीप्तिः प्रकाशः, कान्तिः शाभा । कनति । चकान ।
इटि कनिष्यति । ऐदित्त्वात् क्तयोनेंट् कान्तः, शील्यादित्वात् सत्यर्थे क्तः, कान्तवान् । वनि सुकावा। 25 क्विपि सुका सुकानौ । उणादौ "द-क-न-"(उ० २७) इति अके कनकम् । “कनेरीनकः" (उ० ७३)
कनीनिका । “स्था-छा-मा-"(उ० ३५७) इति ये कन्या ॥ यत्र स्वननमस्तीति सशब्दं भुङ्क्ते इत्यर्थः। पिनाकी तु भुञ्जानः किञ्चित् शब्दं करोतीति । काश्यपस्तु भोजनमेवार्थमाह । बोधिन्यासेऽपि पक्षत्रयमपि दर्शितम्"- माधवीयधातुवृत्तौ पृ. १४३ धातुअंक १२॥
१ विषयेषु अनाकुलं मनः .स्वान्तमित्यन्ये ॥२ मनसा घटितं स्पृष्टमिति यावत् ॥ ३ तसि तृतीयपुरुषद्विवचनसूचके प्रत्यये ॥ ४ सम्भक्तो संपा१ संक॥५"तिक-कृतौ नाम्नि" ५।१।७१। इत्यनेन आशिषि तिक॥६वनि कावा सुसंपा१॥