________________
परस्मैधातवः ३१८-३२८]
स्वोपज्ञं धातुपारायणम् ।
४१
तु सिधितः । षिधूंच् संशद्धौ । सिध्यति । निसिध्यति, “स्था-सेनि - " २/३/४० । इत्यत्र सेध - निर्देशाद् नात्र षत्वम् । सेद्धा, सेत्स्यति ॥
३२१ षिधौ शास्त्र - माङ्गल्ययोः । शास्त्र शास्त्रविषयं शासनम्, माङ्गल्यं मङ्गलविषया क्रिया । अनयोरेवार्थयोरयमौदित्, अर्थान्तिरे पुनरूदित् पूर्वक एव, अन्यथा तत्पाठोऽनर्थकः स्यात्, अर्थान्तरेऽप्यनेनैवेड्डिकल्पस्य सर्वत्रैव सिद्धत्वात्। “षः सो- " २|३|९८ । इति सत्वे सेधति । षोपदेशत्वात् 5 सस्य कृतत्वे "नाम्यन्तस्था - " २|३ | १५ | इति षत्वम्, सिषेध । “स्था-सेनि - " २।३।४० । इति षत्वे अभिषेधति, यङ्लुपि अभिषेषिधीति, अव्यवाये अभ्यषेधत् । घञि सेधः, शोभनः सेधः सुषेधः, “निर्दुःसोः - " २।३।३१ । इति षत्वन् । औदित्त्वात् “धूगौदितः " ४|४|३८| इति वेट्, सेद्धा सेधिता । परोक्षायां “स्क्रसृ-वृ- " ४|४|८१ । इति नित्यमिद्, सिषिधिव सिषिधिम । “घसेकस्वरा-" ४।४।८२। इति नियमात् क्वसौ नेट्, सिषिध्वान् । वेट्त्वाद् “वेटोऽपतः " ४ । ४ । ६२ । इति तयोनेंट्, सिद्धः सिद्धवान् । उणादौ " ऋज्यजि - " ( उ० ३८८) इति किति रे सिघ्रो वृक्षः, कपि सिकः ॥ शुध्यति, शुद्धः शुन्धते शुषितः,
10
३२२ शुन्ध शुद्धौ । शुन्धति । इटेि शुधितः शुधितवान् । शुधंच् शौचे शुद्धवान् । शुधिण् शुद्धौ “गुजादेर्नवा " ३।४।१८। इति वा णिचि शुन्धयति शुन्धितः ॥
अथ नान्ता नव सेटश्व
15
३२३ स्तन ३२४ धन ३२५ ध्वन ३२६ चन ३२७ स्वन ३२८ वन शब्दे । स्तनति । लस्तान । इटि स्तनिता । अचि स्तनः । शब्दे घटादित्वाद् णिगि ह्रस्वे स्तनयति, अन्यत्र स्तानयति । घञि अभिनिष्टानो विसर्गः, “अभि-निःष्टानः " २|३|२४ । इति षत्वम् । “असमान लोपे - " ४|१|६३ | इति सन्वद्भावे अतिस्तनत् । स्तनण् गर्जे अदन्तः, स्तनयति, समानलोपित्वात् सन्वद्भावाभावे अतस्तनत् ॥ धन | धनति । अचि धनम् । इटि धनिता, धनिष्यति । " मन्वन्- "५ | १ | 20 १४७| इति वनिप्, धन्वा, बाहुलकादात्वाभावः । उणादौ “कृषि - चमि - " ( उ० ८२९ ) इति ऊः, धनूज्य चापं च । " रुद्यर्ति - " ( उ० ९९७) इति उसि धनुः ॥ ध्वन । ध्वनति । दध्वान । यङि दन्ध्वन्यते । इटि ध्वनितां, ध्वनिप्यति । अचि ध्वनः । ते “ क्षुब्ध - विरिब्ध - " ४।४।७० । इति निपातनात् मसिनेट् ध्वान्तं तमः, ध्वनितमन्यत् । शब्दे घटादित्वाद् णौ ह्रस्वे ध्वनयति, अन्यत्र ध्वानयति । उणादौ “पदि पठि -" ( उ० ६०७ ) इति इः, ध्वनिः । ध्वनण् शब्दे अदन्तः, ध्वनयति ॥ 25 चन । चनति । हिंसायां घटादित्वाद् णौ ह्रस्वे चनयति ॥ स्वान । “व्यवात् स्वनोऽशने " २ | ३ | ४३ । इति षत्वे विष्वजति अवष्वणति, विषष्वाण अवषष्वाण,
स्वन । दन्त्यादिः । खनति । स
१ 'सेध' इति कृतगुणस्य निर्देशः । ननु सेध इत्यत्र अकारश्रवणात् " तिवा शवा" इति न्यायात् यलुपि न भविष्यति इति चेत्, न, अकारोऽत्रोच्चारणार्थः, न तु शत्रू निर्देशः, तेन यङ्लुप्यपि भवी, प्रतिषेषिधीति ॥ २ भुङ्क्ते इत्यर्थः-सशब्दं भुङ्क्ते इत्यर्थः इति वृत्तिकारः । " तथा च वृत्तौ अभ्यवहार क्रियाविशेषोऽभिधीयते
धा०पा० ६