________________
परस्मैधातवः २७३-२८३] स्वोपचं धातुपारायणम् । परस्मैपदम् ; उभयत्रापि “गति-बोधा-" २।२।५। इत्यणिक्कर्तुः कर्मत्वम् । णौ डे ओणेदिकग्णज्ञापकात् पूर्व हस्वे पश्चाद् द्वित्वे मा भवानतितत् । “गत्यर्था-" ५।१।११। इति वा कर्तरि ते अतितो ग्राम चैत्रः, पक्षे यथाप्राप्तम् । कर्मणि अतितो ग्रामश्चैत्रेण, कर्माविवक्षायां भावे अतितमनेन । “अद्यर्थाच्चाधारे" ५।१।१२। इदमहेरतितम् । अत्र "क्तयोरसदाधारे" २।२।९१। इत्याधारवर्जनात् कर्तरि षष्ठीप्रतिषेधो न भवति । शतरि अतन् । क्तौ अत्तिः । उणादौ "भीण-शलि-" (उ० २१) इति के अत्क आत्मा। 5 "प्या-धा-पन्-" (उ० २५८) इति ने अनो वायुः । “तप्यणि-" (उ० ५६९) इत्यसे अतसी । "पादाच्चात्यजिभ्याम्” (उ० ६२०) इति णिद् इः, आतिः; पैदातिः, “पदः पादस्या-" ३।२।९५। इति पदादेशः । “अतेरिथिः" (उ० ६७३) अतिथिः । “सात्मन्नात्मन्-" (उ० ९१६) इति मनि निपातनात् आत्मा ॥
२८० च्युत आसेचने । आसेचनम् ईषत्सेकः । च्योतति। च्योतिता । ऋदित्त्वाद् "ऋदिच्छि-" 10 ३।४।६५। इति वाऽङि अच्युतत् अच्योतीत् । “वौ व्यञ्जनादेः-" ४।३।२५। इति क्त्वा सनोरिटि वा कित्त्वे च्योतित्वा च्युतित्वा, चुच्योतिषति चुच्युतिषति। उणादौ “नाम्युपान्त्य-" (उ० ६०९) इति किद् इः, च्युतिः ।। • २८१ चुतु २८२ चुतू २८३ स्च्युत क्षरणे । क्षरणं स्रवणम् । चोतति । ऋदित्वाद् वाऽडि अचुतत् अचोतीत् ॥ स्चुतू । सो दन्त्योऽत्र । “सम्य श-पौ"१।३।६१। इति शत्वे श्चोतति । ऋ- 15 दित्त्वाद् वाऽङि अश्चुतत् अश्चोतीत् ॥ स्च्युत । सो दन्त्यः, स्च्युश्च योपान्त्योऽत्र । “सस्य श-पौ" १।३।६१। इति शत्वे थ्योतति । ऋदित्त्वाद् वाऽङि अश्च्युतत् अश्थ्योतीत् । षट् श्योतन्तीति “ड्नः सः-" १।३।१८। इति श्चो वर्जनात् शः त्सो न भवति । श्चो वर्जनादेव च सकारापदिष्टं कार्य तदादेशस्य तालव्यस्यापि विज्ञायते, तेन घृतं श्च्योततीति विप्, घृतश्च्युत् , घृतश्च्युतमाचक्षाण इति णिचिअन्त्यस्वरादिलुक्, पुनः क्विप्, “य्वों:-" ४।४।१२१। इति यलुक्, घृतश्च्, ततः सौ "संयोगस्यादौ-" 20 २।१।८८। इति शलुकि सिद्धं घृतः । नन्वत्र "न सन्धि-" ७।४।१११। इत्यत्रास्क्लुकीति वर्जनाद् णिलुकः स्थानित्वप्रतिषेधाभावे णिलुक् स्थानी इति पदान्तत्वाभावे सलुग् न प्राप्नोत्येव, यथा सुकुस्मयतेः क्विपि सौ सुकूरिति । सत्यम् । अस्क्लुकीति वर्जनस्य प्रायिकत्वाद् असद्विधौ सलुक्यपि स्थानित्वप्रतिषेधाद् भवत्येव । श्रुतावपि समानमेतत् । आद्यो द्रमिलानामेव, द्वितीयः कौशिकस्यैव
१ इत्यत्राधा संपा१ वा० ॥ २ अततीति आतिः पक्षी ॥ ३ पादाभ्यामततीति पदातिः पत्तिः ।। ४ "अत्र "सस्य शषौ” १।३।६१। इत्यत्रानु इत्यधिकारे वर्तमाने श्चवर्जनाभावे दन्त्यसकारस्य त्सः स्यादिति । ननु तर्हि उपदेशावस्थायामेव तालव्यः पनीयः किं दन्त्यपठनेनेति, सत्यम् , दन्त्यं पठन्ने ज्ञापयति"दन्त्यापदिष्ट कार्य तालव्यस्यापि भवति परं दन्त्यस्थाननिष्पन्नस्य न सर्वस्य" तेन भवान् शेते इत्यादौ सो न भवति । ननु मधुग इत्यत्र "स्वरस्य परे-" ७४११०। इति सूत्रेण णिलोपरूपस्य स्वरादेशस्य स्थानिवत्त्वात् शलोपो न प्राप्नोति, न च वाच्यं "नसन्धि-" ७४१११। इत्युपतिष्ठते इति, अस्वलुकीति वचनात् , यथा सुपूर्वात् कुस्मयतेः सुकूरित्यत्र । न । अस्क्लुकीत्यत्र नमनिर्देशेन 'नमा निर्दिष्टमनित्यम्' इति न्यायात् स्थानित्वाभाव इति"।