________________
आचार्यश्रीहेमचन्द्रविरवितं
[भूवादिगणे सम्मतः । एवमन्यत्राप्याचार्यभेदेन धातुपाठो द्रष्टव्यः ॥
२८४ जुतू भासने। जोतति । ऋदित्त्वाद् वाऽङि अजुतत् , अजोतीत् । “वौ व्यञ्जनादेः”–४।३। २५। इति वा कित्त्वे जोतित्वा जुतित्वा, जुजोतिषति जुजुतिषति ॥
२८५ अतु बन्धने । उदित्त्वाद् ने अन्तति । “अनातो-'' ४।१।६९। इत्यात्वे ने च आनन्त । 5 णके अन्तकः । अन्ये अतु इतु बन्धने इति पेटुः । इन्ताञ्चकार ॥ ___ २८६ कित निवासे। केतति । अनटि सङ्केतनम् निकेतनम् । घजि सङ्केतः । णके केतकी। धातूनामनेकार्थत्वात् "कितः संशय प्रतीकारे" ३।४।६। इति स्वार्थे सनि विचिकिल्सति मे मनः, चिकित्सत्यातुरं वैद्यः । निग्रह-विनाशावपि प्रतीकारस्यैव भेदौ, परक्षेत्रे चिकित्स्यः पारदारिकः, चिकि
स्यानि क्षेत्रे तृणाने ॥ 10 २८७ ऋत घृणा-गति स्पर्धेषु । "ऋतेमयः" ३।४।३। इति स्वार्थे डीये ऋतीयते । “अशवि
ते वा” ३।४।४। इति वा ङीये ऋतीयिता, ऋतीयाश्चक्रे; पक्षे अर्तिता, आनर्त । "ऋत्तष-" ४।३।२४। इति सेटः क्त्वो वा कित्त्वे ऋतित्वा अर्तित्वा ॥
अथ थान्ताः षद् सेटश्च
२८८ कुथु २८९ पुथु २९० लुथु २९१ मथु २९२ मन्थ २९३ मान्थ हिंसा-सङ्क्ले15 शयोः। हिंसा प्राण्युपघातः, सक्लेशो बाधा । उदित्त्वाद् ने कुन्थति, कुन्थ्यते । ते कुन्थितम् ।
क्त्वि कुन्थित्वा । कुन्थश् सङ्क्तेशे कुभाति, कुथ्यते, कुथितम् ॥ पुथु । उदित्त्वाद् ने पुन्थति, पुन्थ्यते, पुन्थितम् ॥ लुथु उदित्त्वाद् ने लुन्थति, लुन्थ्यते, लुन्थितम् ॥ मथु। उदित्त्वाद् ने मन्थति, मन्थ्यते, मन्थितम् ॥ मन्थ । नोपान्त्याऽयम्। विलोडनेऽयमित्येके।
मन्थति । मथ्यते । मथितम् । “ऋत्तष-" ४।३।२४। इति सेटः क्त्वो वा कित्त्वे मथित्वा, मन्थित्वा । 20 अचि मन्थः । मन्थश् विलोडने मनाति मथ्नीतः ॥ मान्थ । मान्थति । माथ्यते ॥
अथ दान्ताः पड्विंशतिः स्कन्दृवर्जाः सेटश्च२९४ खादृ भक्षणे । खादति । चखाद । ऋदित्त्वाद् हूस्वाभावे अचखादत् । “गति-बोधा-ऽऽहारा-" २।२।५। इति सूत्रेण खादिवर्जनादणिक्कर्तुः कर्मत्वाभावे खादयत्योदनं चैत्रेण मैत्रः, अत्र फलवत्कर्तर्यपि
"चल्याहारार्थेड्-" ३।३।१०८। इति परस्मैपदम्। “निन्द-हिंस-"५।२।६८। इति णके खादनशीलः 25 खादकः ॥
१ अनवधारणात्मकः प्रत्ययः संशयः, प्रतीकारो दुःखहेतोर्निराकरणम् ॥ २ संशेते इत्यथः ॥ ३ प्रतिकरोतीत्यर्थः ।। ४ ननु अन्यैर्निग्रह-विनाश योरपि सन् कथितः तत् स्वीयमते कथम् इति शङ्कायामाह-निग्रह-विनाशी इति ॥ ५ निग्राह्य इत्यर्थः ॥ ६ विनाशयितव्यानि, अपनेतव्यानि वेत्यर्थः ॥ ७ ननु ठीय इति अदन्ताकरणेऽमि. ऋतीयते इत्यादि सेत्स्यति किमदन्तकरणेन ? सत्यम्, ऋतीयते इत्यादीनामदन्तकरणाभावेऽपि सिद्धिः परं आर्तितीयत इत्यत्रादन्ततायाः फलम् , अन्यथा आतितियत् इति स्यात् । उकार आत्मनेपदार्थः गुणाभावार्थश्च ।