________________
३४
आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे ___ इह च शब्दार्थत्वाविशेषेऽपि रणितं नू पुरादौ, मणित सुरतकूजिते, कणितम् आर्ते, क्वणितं वीणादौ 'रूढम् । एवमन्यत्रापि, कूजितं विहगादौ, बृंहितं गजे, हेवितं हये, वाशितं पशुषु, गर्जितं मेघादौ, गुञ्जितं सिंहादावित्यादिक लक्ष्यादभ्यूह्यम् ॥
२७३ ओण अपनयने। ओणति । “गुरनाम्यादे-" ३।४।४८। इति परोक्षाया आमादेशे ओ. bणाञ्चकार। ऋदित्त्वाद् णौ डे "उपान्त्यस्या-" ४।२।३५। इति हूस्वाभावे मा भवान् ओणिणत् ।
ननु नित्यत्वादन्तरङ्गत्वाच्च द्वित्वे कृते उपान्त्याभावादेव हूस्वो न प्राप्नोति किमृदित्करणेन ? सत्यम् , इदमेव ऋदित्करणं ज्ञापकम्-नित्यमन्तरङ्गं च द्वित्वमुपान्त्यहस्वो बाधते, तेनान्यत्रापि पूर्व इस्वः पश्चाद् द्वित्वम् , मा भवानटिटत् , मा भवानशिशत् । वनि “वन्याङ् पञ्चमस्य" ४।२।६५। इति आत्वे अदावा,
स्त्रियां “ण-स्वरा-" २।४।४। इति ङ्यां नस्य रत्वे च अवावरी ॥ 10 २७४ शोण वर्ण-गत्योः । तालव्यादिः । शोणति । शुशोण शुशोणतुः शुशोणुः । ऋदित्त्वाद् हस्वाभावे अशुशोणत् । शोणितः शोणितवान् । अचि शोणो वर्णः, स्त्रियां "नवा शोणादेः" २।४।३१। इति वा ङीः, शोणी शोणा । गतौ "व्यञ्जनाद्-" ५।३।१३२। घञि शोणो नदः। उणादौ "हृ-श्या-" (उ० २१०) इति इते शोणितम् ।।
२७५ श्रोण २७६ श्लोण सङ्घाते । तालव्यादी । श्रोणति । ऋदित्त्वात् अशुश्रोणत् । अचि गौ15 रादित्वाद् ड्यां च श्रोणी । श्रोणिरिति तु शृणोतेरौणादिके णौ ॥ श्लोण। श्लोणति। अशुश्लोणत् ।।
२७७ पैण गति-प्रेरण-श्लेषणेषु । पैणति । पिपैण । यङि पेपैण्यते । ऋदित्त्वात् अपिपैणत् ।।
अथ तान्ता दश सेटश्च२७८ चितै सञ्ज्ञाने । सञ्ज्ञानं संवित्तिः । चेतति । चिचेत । ऐदित्त्वात् क्तयोर्नेट्, चित्तः चित्तवान् , चित्तम् । “श्वादिभ्यः" ५।३।९२। इति क्तौ चित्तिः । “वौ व्यञ्जनादेः-" ४।३।२५। इति 20 क्त्वा-सनोरिटि वा कित्त्वे चितित्वा चेतित्वा, चिचितिषति चिचेतिषति । णौ “साहि-साति-"
५।१।५९। इति शे चेतयः । क्विपि चेतनं चित् । उणादौ "अस्” (उ० ९५२) इति असि चेतः । चितिण संवेदने चेतयते । चेतनः, चेतना ॥
२७९ अत सातत्यगमने । सातत्येन गमन नित्यगतिः । अतति । आत आततुः आतुः । अतिता। सनि अतितिषति। "क्रियाव्यतिहारे-" ३।३।२३॥ इति गत्यर्थप्रतिषेधाद् नात्मनेपदम् , व्यत्यतति । 25 णिगि आतयति मैत्रम् , अत्र फलवत्कर्तर्यपि “अणिगि प्राणि-" ३।३।१०७। इति परस्मैपदम् ; आतयति ग्रामं चैत्रमिति सकर्मकत्वविवक्षायां तु चल्यर्थत्वात् "चल्याहारार्थे ' ३।३।१०८। इति
१+ एतन्मध्यगतः पाठः संपा१ नास्ति ॥ २ शोण वर्णे इत्यस्य अचि शोणः उज्ज्वलो वर्णः-निर्दोषरक्तवर्ग इत्यर्थः ॥ ३ श्रृंद श्रवणे इत्यस्माद्धतोः “का-वा-बी-क्री-शि-श्रु-क्षु-ज्वरि-तूरि-चूरि-पूरिभ्यो णिः” (उ० ६३४) इति णिः, श्रोणिर्जधनम् । ४ 'त्यर्थत्वान्नात्म संपा१ वा० ।