________________
परस्मैधातवः २५५-२७२] स्वोपचं धातुपारायणम् । रणनशीलो रणनः॥ वण। वणति। "अनादेशादेः-" ४।१।२४। इति एत्वस्य "न शसददि-" ४।१।३०। इति वादित्वात् प्रतिषेधे ववणतुः ववणुः । यङि वंवण्यते। यङलुपि वंवणीति वंवति । वनि “वन्याङ्-" ४।२।६५। इति आत्वे प्रवावा । विचि प्रवण । क्विपि “अहन्पञ्चमस्य-" ४।१।१०७। इति दीर्घत्वे प्रवाण् । उत्पूर्वादचि पृषोदरादित्वाद् दो लत्वे उल्वेणम् । क्तौ “अहन्पञ्चमस्य-" ४।१।१०७। इति दीर्घत्वे तस्य टत्वे वाण्टिः । उणादौ "कमि-वमि-" (उ० ६१८) इति । णिद् इः, वाणिर्वाक्, ड्याम् वाणी॥ व्रण । व्रणति । अचि व्रणः । वेणण् गात्रविचूर्णने अदन्तः, व्रणयति ॥ बणबणति । “अनादेशादे:-" १११।२४। इति एत्वे बेणतुः बेणुः, पवर्गतृतीयादित्वेन “न शस-ददि-" ४।१।३०। इति प्रतिषेधाभावः । णौ-अचि बाणः । “व्यञ्जनाद् -" ५।३। १३२। घनि बणन्त्यस्मिन् पुङ्खा इति बाणः॥ भण। भणति । णौ-अचि भाणः प्रबन्धविशेषः॥
प्रण । भ्रणति । बभ्राण ॥ मण। मंणति । ममाण मेणतुः मेणुः । उणादौ "मणि-व- 10 सेर्णित्” (उ० ५१६) इति अवे माणवः शिष्यः । “पदि-पठि-पचि-"(उ०६०७) इति इः, मणिः । "कुशिक-"(उ०४५) इति इके मैणिको महाकुम्भः॥ धण। धणति । दधाण ॥ ध्वण। ध्वणति । दध्वाण ॥ ध्रण । ध्रणति । दध्राण ॥ कण। कणति । चकाण । गतौ घटादित्वाण्णौ हस्वत्वे कणयति, अन्यत्र काणयति । सचि कणः, कणिका । घञि काणः । उणादौ "स्यमि-कषि-" (उ० ४६) इति ईके कणीकः पटवासः । कणीका भिन्नतण्डुलावयवः । “कण्यणेर्णित्" 1E (उ० ५६) इति उके काणुकः काकः, काणुकम्-अक्षिमलम् । “कणि-भल्लेर्दीर्घश्च वा" (उ०६०) इति ऊके कणूको धान्यस्तोकः, काणूकः पक्षी, काणूकम्-अक्षिमलं तमश्च । “वनि-कणि-" (उ० १६२) इति ठे कण्ठः । “कण्यणि-" (उ० १६९) इति वा णिति डे काण्डः शरः, कण्डं भूषणम् । "लटिखटि-" (उ० ५०५) इति वे कण्वं पापम् , कण्वो मेधावी । “मृ-श्वि-" (उ० ६२७) इति ईचौ कणीचिः शङ्खः शकटं च॥ कण। कणति । चक्काण । "नवा कण-" ५।३।४८। इति वाऽलि 20 कणः काणः । “नेर्नद-" ५/३।२६। इति वालि निक्कणः निकाणः । “वैणे कणः' ५।३।२७॥ इति सोपसर्गाद् वाऽलि प्रक्वणः प्रक्वाणो वीणायाः । उणादौ "सृणीका-" (उ० ५०) इति निपातनाद् यङन्तादीके कङ्कणीको घण्टाजालम् , तथा किमः परादीके किकिणीका घण्टिका ॥ चण । चणति । चचाण । हिंसा-दान-गतिषु घटादित्वाद् णौ हूस्वत्वे चणयति, अन्यत्र चाणयति । उणादौ "दृ-कृ-न-" (उ० २७) इति अके चणकः। “महि-कणि-" (उ० ४२८) इति णिति ऊरे 25 चाणूरो विष्णुहतो मल्लः ॥
१ पञ्चमेति दीर्घ प्र' संपा १ ॥२ उल्वणः । तौ संपा१॥३ "कुशिक-हृदिक-मक्षिका-इतिक-पिपीलिकादयः" (उ० ४५) इत्यत्र आदिग्रहणाद् गब्दिक-भुरिक-भुलिकादीनामिव अयमपि ॥ ४ वीणायां भवो वैणः, तस्मिन्नर्थे वर्तमानादुपसर्गपूर्वात् कणेर्भावाकोरल वा स्यात् । प्रक्वणः प्रक्वाणो वीणायाः। कथं क्वणः क्वाणो वीणायाः ? "नया कण-"५।३।४८॥ इत्यादिना सामान्येन विधानाद्वैणेऽपि भवति । ५ "किमः परात कणेः किए च" (उ० ५०) धा. पा. ५