________________
३०
आचार्यश्रीहेमचन्द्रविरचितं
[भूषादिगणे देशादे:-" ४।१।२४। इति मैत्वम् , जहठतुः जहठुः । अचि हठः ।।
२१८ उठ २१९ रुठ २२० लुठ उपघाते । ओठति । उवोठ ऊठतुः ऊठुः । “नाम्युपान्त्य-" ५।१।५४। इति के उठ उपघातकः॥ रुठ। रोठति ॥ लुठ । लोठति। लुठत् संश्लेषणे लुठति ॥ 5 २२१ पिठ हिंसा-सङ्क्लेशयोः । पेठति । उणादौ "मृधुन्दि-" (उ० ३९९) इति कित्यरे पिठरं भाण्डम् । पिठिरमिति तु पिठेः “स्थविर-" (उ० ४१७) इति निपातनादिरे रूपम् ॥
२२२ शठ कैतवे च। चकाराद् हिंसा-सङ्क्तेशयोः। तालव्यादिः । शठति। शशाठ। अचि शठः । शठ श्वठ श्वठुण संस्कार-गत्योः शाठयति । शठण सम्यग्भाषणे अदन्तः, शठयति ॥
२२३ शुठ गतिप्रतीपाते। तालव्यादिः। शोठति। शुशोठ। उदिदयमित्येके, तत्र च ने 10 शुण्ठति । शुठण आलस्ये शोठयति ॥
२२४ कुठु २२५ लुठु आलस्ये च । चकाराद् गतिप्रतीघाते । उदित्त्वाद् ने कुण्ठति । चुकुण्ठ। कर्मणि घञि कुण्ठः । कुठारे इति तु कुठेः सौत्रस्य ॥ लुठु । लुण्ठति । लुलुण्ठ। अचि लुण्ठः ॥
२२६ शुटु शोषणे। तालव्यादिः । उदित्त्वाद् ने शुण्ठति । शुशुण्ठ। कर्मणि पनि शुण्ठी । शुरण शोषणे शुण्ठयति । उणादौ "किलि-पिलि-" (उ० ६०८) इति इः, शुण्ठि गरमेव ॥ 16 २२७ अठ २२८ रुठु गतौ । अठति ॥ रुठु। उदित्त्वाद् ने रुण्ठति ।।
लुठुमप्यन्येऽधीयते । लुण्ठति । लुलुण्ठ ॥ केचिदर्थभेदात् पुन ठमपि पठन्ति ।
अथ डान्तास्त्रिंशत् सेटश्च२२९ पुडु प्रमर्दने। उदित्त्वाद् ने पुण्डति । पुपुण्ड। णके पुण्डकम् । उणादौ "सृणीका-" (उ० ५०) इति ईके निपातनात् पुण्डरीकम् । “खुर-क्षुर-" (उ० ३९६) इति रे पुण्ड्ः ॥ 20 २३० मुड्डु खण्डने च । चकारात् प्रमर्दने । उदित्त्वाद् ने मुण्डति । मुमुण्ड । मुडुङ् मझने मुण्डते ॥
२३१ मड भूषायाम् । उदित्त्वाद् ने मण्डति । ममण्ड । “भूषा-क्रोधार्थ-" ५।२।४२। इत्यने मण्डनः । उणादौ "मृ-मन्यञ्जि-" (उ० ५८) इत्यूके मण्डूकः । “तृ-जि-" (उ० २२१) इति ण्यन्तादन्ते मण्डयन्त आदर्शः, “आमन्ता-" ४।३।८५। इति णेरयादेशः। मडण् भूषायाम् मण्ड
यति । “णि-वेत्ति-" ५।३।१११। इत्यने मण्डना । वडुङ् मड्डङ् वेष्टने मण्डते ॥ 25 २३२ गडु वदनैकदेशे । गण्डगतसंहननक्रियायामित्यर्थः । उदित्त्वाद् ने गण्डति । जगण्ड । अचि
गण्डः । णके गण्डिका । उणादौ "कृ-श-कुटि-" (उ० ६१९) इति वा णिदिः, गण्डिः, णित्त्ववलाद् वृद्धौ गाण्डिः, ड्याम् गाण्डी। मण्यादित्वाद् वे गाण्डिवम् , गाण्डीवम् । “तृ-जि-" (उ० २२१) इति ण्यन्तादन्ते गण्डयन्तो मेषः ॥
१ "तुषि-कुठिभ्यां कित्" (उ० ४०८) इति कित् भारः ।। २ मण्डनः मु० । मण्डनम् प्र.॥ 30 ३ "मण्यादिभ्यः” ७॥२॥४४॥ इति सूत्रम् ॥