________________
परस्मैधातवः १९० - २१७]
स्वोपज्ञं धातुपारायणम् ।
चुचुण्ट । अनटि चुण्टनम् । डान्तोऽयमित्यन्ये, चुण्डति, चुचुण्ड, अचि चुण्डः ॥
२०५ वटु विभाजने । विभाजनं विभागीकरणम् । उदित्त्वाद् ने वण्टति । ववण्ट । अचि वण्ट एकचरः सेवकः । घञि वण्टो भागः । वटुण् विभाजने वण्टयति ॥
२९
लुटु ।
२०६ रुटु २०७ लुटु स्तेये । उदित्वाद् ने रुण्टति । रुरुण्ट । अचि रुण्टः ॥ उदित्त्वा ने लुटति । लुलुण्ट । अचि लुण्ट: । “ वृङ्-भिक्षि- " ५/२/७०१ इति टाके लुण्टाकः । ते 5 सेट्त्वात् “क्तेटो गुरोः–” ५।३ । १०६ । इत्यः, लुण्टा । लुण्टण् स्तेये च लुण्टयति । ठान्तावेतावित्यन्ये ॥
"
२०८ स्फट २०९ स्फुट्ट विशरणे । स्फटति वस्त्रम् । पस्फाट । क्ते स्फटितम् । अचि कर्पूरस्फटा । उणादौ “क्री-कल्यलि – ” ( उ० ३८ ) इतीके स्फटिकः । उदिदयमिति केचित् तत्र ने स्फण्टति ॥ स्फुट्ट । स्फोटति । पुस्फोट । ऋदित्त्वाद् वाऽङि अस्फुटत्, पक्षे अस्फोटीत् । 10 घञि स्फोटः, आस्फोटः, विस्फोटः । स्फुटत् विकसने कुटादि:, स्फुटति, अस्फुटीत् । “नाम्युपान्त्य – ” ५/१/५४ | इति के स्फुट: । चट स्फुटण् भेदे स्फोटयति । कथं स्फुटयति ? स्फुटं करोतीति णिचि भविष्यति । “बहुलमेतत्" इति वचनाच्चुराद्यदन्तो वा स्फुटण् ज्ञेयः ॥
२१० लट बाल्ये । बाल्यं बालक्रिया । लटति । ललाट । घञि लाटः । अचि कुत्सितं लटति कुलटा, लटः, लटकः । णके लाटकः । उणादौ "लटि-खटि - " ( उ० ५०५ ) इति वेला ||
15
२११ रट २१२ रठ च परिभाषणे । चकारो लटानुकर्षणार्थ:, तेन लटेरर्थद्वयं सिद्धम् । रति । रराट । घञि विरय्यते इति विराटः । रटिता ॥
अथ ठान्ताः सप्तदश सेट -
रठ। रठति । रराठ ॥
२१३ पठ व्यक्तायां वाचि । पठति । पपाठ । णके पाठकः । के पठितम् । “ तेर्महादिभ्यः " 20 ४|४|३३| इतीटि निपठितिः । " नेर्नद-गद - " ५।३।२६ । इति वाऽलि निपठः, निपाठः ॥
२१४ वठ स्थौल्ये । वठति । ववाठ । “अनादेशादेः - " ४।१।२४ । इत्येत्वस्य " न शस-दद - " ४।१।३०। इति प्रतिषेधे ववठतुः ववदुः । उणादौ "ऋच्छि चटि - " ( उ० ३९७) इत्यरे वठरः ॥
२१५ मठ मद-निवासयोश्च । चकारात् स्थौल्ये । मठति । ममाठ । मठन्ति - निवसन्त्यत्रेति "व्यञ्जनाद्-" ५।३।१३२ । इति घञि प्राप्ते बाहुलकात् “पुन्नाग्नि घः " ५।३।१३० । मठः । उणादौ 25 " ऋच्छि चटि - " ( उ० ३९७) इत्यरे मठरोऽधमः ॥
२१६ कठ कृच्छ्रजीवने । कठति । चकाठ। अचि कठः । उणादौ "श्या कठि -" (उ०२८२) इतीने कठिनः । “कठि-चकि- " ( उ० ४३३) इत्योरे कठोरः । “चटि- कठि -” (उ० ७५२) इत्याकौ कठाकुः कुटुम्बपोषी ॥
२१७ हठ बलात्कारे | प्लवन - कीलबन्धनयोरित्यन्ये । हठति । जहाठ । आदेशादित्वात् "अना - 30