________________
૨૮ आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे शत्वाद् णौ सनि “णि-स्तोरेवा-" २।३।३७। इति षत्वे सिपाटयिषति ॥
१९० लुट विलोटने । विलोडने इत्यन्ये । लोटति । लुलोट । लुटच् विलोटने लुट्यति । लुटण भासार्थः लोटयति ॥
१९१ चिट प्रैष्ये । प्रैष्यं दासत्वम् । चेटति । चिचेट । णके चेटको बालो दासश्च । उणादौ 5 "किलि-पिलि-" (उ० ६०८) इति इः, चेटिः ॥
१९२ विट शब्दे । आक्रोशे इत्यन्ये । वेटति । "नाम्युपान्त्य-" ५।१।५४। इति के विटः । णके वेटकम् ॥ १९३ हेट विवाधायाम् । हेटति । जिहेट। डान्तोऽयमित्येके, हेडति, जिहेड ॥
१९४ अट १९५ पट १९६ इट १९७ किट १९८ कट १९९ कटु २०० कटै गतौ। 10 अटति । परोक्षायाम् "अस्यादे:-"४।१६८इति पूर्वस्याऽऽत्वे आटतुः आटुः । “अट्यर्ति--"३।४।
१०। इति यङि अटाट्यते । “आस्यटि-" ५।३।९७। इति क्यपि अट्या। “वाऽटाट्यात्' ५।३।१०३। इति यङन्ताद् ये अटाट्या; पक्षे "शंसि-" ५।३।१०५। इत्यः, अटाटा । सनि “स्वरादेः-" ४।१।४। इति द्वितीयांशद्वित्वे अटिटिषति । अने अटनः । उणादौ “सदि-वृत्यमि-" (उ० ६८०) इत्यनौ अटनिः।
"छवि-छिवि-स्फवि-"(उ० ७०६) इति वौ निपातनात् अटविः ॥ पट । पटति । पपाट । अचि 16 पटः । उणादौ "वी-पति-पटिभ्यस्तनः" (उ० २९२) पट्टनम् । “कृ-श-प-पूग्-" (उ० ४१८) इतीरे
पटीरः। "मृदि-कन्दि-"(उ० ४६५) इत्यले पटलम् , ण्यन्तात् पाटलम् । “कटि-पटि-" (उ० ४९३) इत्योले पटोलः । “क-पृ-कटि-" (उ० ५८९) इत्यहे पटहः । “भृ-मृ-तृ-त्सरि-" (उ० ७१६) इत्युः, पटुः । पटण भासार्थः पाटयति । पट वटण् ग्रन्थे, अदन्तः, पटयति ॥ इट । एटति ।
इयेट किट । केटति । चिकेट । उत्त्रासे पठितोऽप्यर्थभेदात् पुनरुपात्तः ॥ कट.। 20 कटति । चकाट । “व्यञ्जनादे:-" ४।३।४७। इति वा वृद्धौ अकटीत् अकाटीत् । कटु ।
उदित्त्वाद् नागमे कण्टति । [उणादौ] "दृ-क-न-" (उ० २७) इत्यके कण्टकः ॥ कटै । कटति । ऐदित्त्वात् क्तयोर्नेट् , कट्टः कट्टवान् ॥
२०१ कुटु वैकल्ये । उदित्त्वाद् ने कुण्टति । चुकुण्ट । अचि कुण्टः । डान्तोऽयमित्येके, कुण्डति, अचि कुण्डः ॥ 25 २०२ मुट प्रमर्दने । मोटति । अने आमोटनम् । णौ ते आमोटितः । उदिदयमिति कौशिका, मुण्टति । मुटत् आक्षेप-प्रमर्दनयोः मुटति । पुट मुटण् सञ्चूर्णने मोटयति ॥
२०३ चुट २०४ चुटु अल्पीभावे । चोटति । चुचोट । अनटि उच्चोटनम् । चुट छुट त्रुटत् छैदने चुटति । तुट चुट चुटु छुटण् छेदने चोटयति ॥ चुटु। उदित्त्वाद् ने चुटति । १ चौरादिकोऽप्ययं वर्तते, तत्र चुण्टयति ॥