________________
परस्मैधातवः १७४-१८९] स्वोपझं धातुपारायणम् । स्यतेऽनेनेति “व्यञ्जनाद्-" ५।३।१३२। पनि यावादित्वात् के खेटकः, आखेटकः । काभावे खेटो ग्रामोऽधमश्च ॥
१७९ शिट १८० पिट अनादरे । एतौ तालव्य-मूर्धन्यादी। शेटति । शिशेट ॥ पिट । "धः सो-" २।३।९८॥ इति सत्वे सेटति । षोपदेशत्वाद् षत्वे सिपेट ॥
१८१ जट १८२ झट सखाते। जटति। जजाट । जय्यते-संहन्यते "स्थादिभ्यः-" 5 ५।३।८२। इति के जटा । जटा अस्य सन्तीति “काला-जटा-" ७।२।२३। इति लेलो, जटालः जटिलो जटावान् । अभ्रादित्वादः जटः । स्थादित्वात् के जटः ॥ झट । झटति । उज्झटति । अचि झटः, झटा । घनि झाटः ।।
१८३ पिट शब्दे च । चकारात् सङ्घाते । पेटति । “तिक्कृतौ-" ५।११७१। इति के स्वार्थे के च पिटकः । “घञ्युपसर्गस्य-" ३।२।८६॥ इति बाहुलकाद् दीर्थे पिटाकः । लिहादित्वादचि पेटा। 10 उणादौ "छिदि-भिदि-" (उ० ३०) इति वा कित्यके पिटकः क्षुद्रस्फोटः, पेटकं चक्रम् । केचित 'पेडा' इति सिद्ध्यर्थ डान्तमेनं पठन्ति ।।
१८४ भट भृतौ । भृतिवेतनं भरणं च । भटति । बभाट । परिभाषणे घटादित्वात् णौ भटयति । अचि भटः । णके भाटकम् । उणादौ "बन्धि-वहि-" (उ० ४५९) इति इत्रे भटित्रम् । "कल्यनि-" (उ० ४८१) इति इले भटिलः । “कमि-वमि--" (उ० ६१८) इति णिदिः, भाटिः सुरतमूल्यम् ॥ 15
१८५ तट उच्छाये । तटति । तताट । अचि तटः । णके ताटकः । उणादौ "शलि-बलि-"(उ० ३४) इत्याके तटाकम् ।।
१८६ खट काझे । कासाऽस्यास्तीत्यमादित्वादः कासः, कासाविशिष्टो धात्वर्थः । खटति । चखाट । अचि खटस्तृणम् । गौरादित्वात् ड्याम् खटी। लध्वी खेटी। खटिका। उणादौ "लटिखटि-" (उ० ५०५) इति वे खट्टा ॥
१८७ णट नृतौ। नतावित्यन्ये । हिंसायामप्येके । नटति। प्रणटति, णोपदेशत्वाद् “अदुरुपसर्गा-" २।३।७७। इति णत्वम् । नायं णोपदेश इत्येके, प्रनटयति प्रनाटयति। नेटतुः नेटुः । अचि नटः । णौ नतौ घटादित्वाद् हस्वे नटयति शाखाम् ; नृतौ हिंसायां च घटादित्वाभावे न हूखः, नटं नाटयति, प्रणाटयति, चोरस्योन्नाटयति, “जास-नाट-" ।२।२।१४। इति कर्मणो वा व्याप्यत्वम् । नटण् अवस्यन्दने नाटयति नाटकम् ॥
25 १८८ हट दीप्तौ । हटति । जहाट । णके हाटकम् ॥ १८९ षट अवयवे । “षः सो-"।२३।९८। इति सत्वे सटति । ससाट । अचि सटा । पोपदे
१ "अभ्रादिभ्यः" ॥२॥४६॥ २ "स्थादिभ्यः कः" ५।३१८२॥ ३ "लिहादिभ्यः" ५।११५०॥ ४ 'त्वाद की, ख प्र. मु.॥ ५+ + एतन्मध्यगतः पाठः सं१ संर संपा१ वा. तपा० नास्ति ।। ६ नर्तयतीत्यर्थः ॥ ७ चौरस्यो प्र. मु० ॥
20