________________
आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे ४।३।२१। इति परोक्षायाः कित्त्वाभावे' ससञ्जतुः ससञ्जः । “स्था-सेनि-" २।३।४०। इत्युपसर्गात् षत्वे व्यतिषजति अभिषजति। अभिषिषड्वति । पोपदेशत्वात् णौ सनि “सञ्जेर्वा" २।३।३८। इति षत्वे सिपञ्जयिषति, पक्षे सिसञ्जयिषति । यङि सासज्यते। यङ्लुपि सासञ्जीति सासति । अनुस्वारेत्त्वाद्
नेट् , सङ्गा, सङ्क्तुम् । क्ते प्रसक्तम् । तेऽनिट्त्वाद् ध्यणि गत्वे प्रसङ्गयः । घनि उत्सङ्गोऽङ्कः । 5 “घञ्युपसर्गस्य-" ३।२।८६। इति दीचे प्रासङ्गो युगम् , निषङ्गस्तूणा । “ज-नशो नि-' ४।३।२३।
इति क्त्वो वा कित्त्वे सक्त्वा सङ्क्त्वा । यादेः क्त्वो नित्यं कित्त्वे आसज्य प्रसज्य । उणादौ “वी-सञ्ज्यसिभ्यस्थिक्" (उ० ६६९) सक्थि ।।
अथ टान्ता अष्टात्रिंशत् सेटच
१७४ कटे वर्षा-ऽऽवरणयोः । वृष्टावावरणे चार्थे । कटति । चकटतुः चकटुः, आदेशादित्वाद् 10 "अनादेशादेः-" ४।१।२४। इत्येत्वाभावोऽत्र । “व्यञ्जनादेर्वोपान्त्यस्या-" ४।३।४१॥ इति वा
प्राप्ताया वृद्धेरेदित्त्वात् "न श्वि-जागृ-" ४।३।४९। इति प्रतिषेधे अकटीत् । अचि कटति-वर्षतिमदजलं सवति कटः करिगण्डः, कटति-आवृणोति कटो वीरणादिमयः, नास्य कटोऽस्ति निकटः समीप इत्यर्थः । घनि काटः। उणादौ "द-क-न-" (3० २७) इत्यके कटकः । "कृ-कडि-"
(उ० ३२१) इत्यम्बे कटम्बो वादित्रम् । "कृ-श-प्र-पूग्-" (उ० ४१८) इति ईरे कटीरं कटी। 15 "कृ-ग-श-" (उ० ४४१) इति वरटि कटरो व्यालाश्वः, कट्टरी दधिविकारः । “पदि-पठि-" (उ.. ६०७) इति इः, कटिः। “भृ-भू-तृ-" (उ० ७१६) इत्युः, कटुः ॥
१७५ शट रुजा-विशरण-गत्य-ऽवशातनेषु । चतुर्थेषु । शटति । शशाट । अचि शटः । ण्यन्तादचि शाटी । णके शाटकः । घञि शाटः । तालव्यादिः ॥
१७६ वट वेष्टने । वटति रज्जुम् । "अनादेशादेः-" ४।१।२४। इत्येत्वस्य "न शस-दद-" 20 ४।१।३०। इति प्रतिषेधे ववटतुः ववटुः । अचि वटः। “बहुलम्" ५।१।२। इत्यकटि वट्यते वेष्ट्यते
इति वटकम् । प्यन्तादचि वाटः वाटी वाटं च वृतिः। उणादौ "पदि-पठि-” (उ० ६०७) इति इः, वटिः । “भृ-मृतृ-त्सरि-" (उ० ७१६) इत्युः, वटुः । परिभाषणे घटादित्वाद् णौ वटयति । पट वटण् ग्रन्थे, अदन्तः, वटयति ॥
१७७ किट १७८ खिट उत्तासे । उत्त्रासो भयोद्गतिः उत्त्रासनं च । केटति । चिकेट । “मा25 म्युपान्त्य-" ५।१।५४। इति के किटः, किटी ॥ खिट । खेटति । चिखेट। खिट्यते-उत्त्रा
१ ननु “तत्र क्वसु-कानौ तद्वत्" ५।२।२। इत्यत्र क्वसु-कानयोः परोक्षावद्भावे "इन्ध्यसंयोगात् परोक्षा किद्वत्" ४।३।२१। इति संयोगान्तधातूनां कित्त्वाभावे कथं सेजिवान् बभ्रशानः : इत्यादौ न लुक् ? इति चेत्, क्वसु-कानयोः परोक्षावद्भापादेव कित्त्वे सिद्ध कित्करणं संयोगान्तधात्वर्थम् , तेन संयोगान्तात् परो.. क्षायाः कित्त्वनिषेधेऽपि अनयोः कित्त्वात् न लुगिति ॥ २ "ण्यन्तस्य त्वस्य अद्यतन्यामेव प्रयोगो दृश्यते तेन जौ के प्राचीकटत्" इति क्रियारत्नसमञ्चये ॥ .