SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ परस्मैधातवः १४२-१७३] स्वोपझं धातुपारायणम् । १५७ लाज १५८ लाजु भर्जने च । चकारा भर्त्सने । लाजति । क्ते सेट्त्वाद् गत्वाभावे पनि लाज्यन्ते इति लाजाः॥ लाजु । उदित्त्वाद् नागमे लाञ्जति ॥ १५९ जज १६० जजु युद्धे। जजति ॥ जजु । उदित्त्वाद् नागमे जञ्जति । यङ्लुपि जाजक्ति जाजञ्जीति ॥ १६१ तुज हिंसायाम् । तोजति । तुतोज। “वौ व्यञ्जना-" ४।३।२५। इति क्त्वा-सनोर्वा कित्त्वे । तुजित्वा तोजित्वा, तुतुजिषति तुतोजिषति ॥ १६२ तुजु वलने च। चकाराद् हिंसायाम् । पालनेऽपीत्यन्ये । वलनं प्राणनम् । उदित्त्वाद् नागमे तुञ्जति । तुतुञ्ज । क्ते तुञ्जिता भूः । क्ते सेट्त्वात् "क्तेटो- ५।३।१०६। इत्यः, तुञ्जा । तुङ्ग इति तु तमेर्डित्युङ्गे । तुजुण हिंसाद्यर्थः, भासार्थश्वान्यः, तुञ्जयति ॥ १६३ गर्ज १६४ गजु १६५ गृज १६६ गृजु १६७ मुज १६८ मुजु १६९ मृजु १७० मज 10 शब्दे ॥ गर्ज । गर्जति । जगर्ज। क्ते गर्जितम् । “बहुलमेतन्निदर्शनम्" इति वचनात् चुरादित्वे गर्जयति । यल्लक्षम् “प्रतिरवपरिपूर्णा गर्जयन्त्यद्रयोऽपि" || गजु । उदित्त्वाद् नागमे गञ्जति । जगञ्ज । अचि गञ्जा ॥ गृज । गर्जति । जगृजुः । यङि जरीगृज्यते । यङ्लुपि जरिगति जर्गक्ति । ते गृजितम् ॥ गृजु । उदित्त्वाद् नेऽन्ते गृञ्जति। 15 जगृञ्ज । यङि जरीगृञ्ज्यते । यङ्लुपि जरिगृति जति । उणादौ “य्वसि-रसि-" (उ० २६९) इत्यने गृञ्जनमभक्ष्यद्रव्यम् ॥ . मुज । मोजति । मुमोज । "वौ व्यञ्जना-" ४।३।२५। इति क्त्वासनो कित्त्वे मुजित्वा मोजित्वा, मुमुजिषति मुमोजिषति ॥ मुजु । उदित्त्वाद् ने मुञ्जति । मुमुञ्ज । अचि मुञ्जः॥ मृजु । उदित्त्वाद् ने मृञ्जति ॥ मज । मजति ॥ १७१ गज मदने च। चकारात् शब्दे । मदनं मदोत्पत्तिः । गजति। जगाज। अचि गजः । 20 गज मार्जण् शब्दे गाजयति ॥ . १७२ त्यजं हानौ । हानिस्त्यागः । त्यजति । तत्याज । अनुस्वारेत्त्वाद् नेट् , अत्याक्षीत् । त्यक्ता। यङि तात्यज्यते । यङ्लुपि तात्यजीति तात्यक्ति । यणि "त्यज-" १।१।११८। इति गत्वप्रतिषेधात् त्याज्यम् । “युज-भुज-" ५।२।५०। इति घिनणि त्यागी। घनि त्यागः ॥ १७३ षञ्ज सङ्गे । “षः सो-" २।३।९८। इति सत्वे "दंश-सञ्जः शवि" ४।२।४९। इति 25 नलोपे सजति । “व्यञ्जनानामनिटि" ४।३।४५॥ इति वृद्धौ असाङ्गीत् । संयोगान्तत्वात् “इन्ध्यसंयोगा-" १ तमू काकायाम् इत्यस्माद्धातोः “कमि-तमि-शमिभ्यो डित्" (उ० १०७) इति डित् उङ्गः ॥ "व्यञ्जनानामनिटि" ४।३।४५। “सः सिजस्तदि-स्योः" ४।३।६५) "अघोषे प्रथमोऽशिटः" १।३१५०। २ अत्र "च-जः क-गम्-"२।११८६॥ इति वृद्धौ ईत्त्वे प्रथमत्वे कत्वे च कृते "नाम्यन्तस्था-कवर्गात-" २।३।१५। इति सस्य षत्वे "क-षयोोगे क्षः" इति वचनात् क्षत्वं च ॥ धा.पा.४
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy