________________
आधार्थश्रीहेमचन्द्रविरचितं
[भूवादिगणे १४२ अर्ज १४३ सर्ज अर्जरे। अर्जति । “अनातो नश्चान्त-" १।१।६९। इति पूर्वस्यात्वे नागमे च आनर्ज । “अयि रः" ४।१।६। इति रस्य द्वित्वाभावे अर्जिजिषति । उणादौ “यम्यजि-" (उ० २८८) इत्युने अर्जुनः । “अर्जेज़ च” (उ० ७२२) ऋजुः । अर्जण् प्रतियत्ने अर्जयति ।।
सर्ज। सर्जति । ससर्ज । णके सर्जिका । उणादौ "कृषि-चमि-" (उ० ८२९) इत्यूः, सः क्षारः ।। 5 १४४ कर्ज व्यथने । कर्जति । चकर्ज ॥
१४५ खर्ज मार्जने च। चकाराद् व्यथने। खर्जति । चखर्ज। उणादौ “मी-मसि-"(उ० ४२७) इत्यूरे खजूरः । “कृषि-चमि-" (उ० ८२९) इत्यू:, खजूः ।।
१४६ खज मन्थे । मन्थो विलोडनम् । खजति । चखाज चखजतुः चखजुः, ' आदेशावित्वाद् “अनादेशादे:-" ४।१।२४। इति नैत्वम् । यङि चाखज्यते। यड्लुपि चाखजीति । ते खजि10 तम् । क्ते सेट्त्वाद् ध्यणि घनि च गत्वाभावे खाज्यम् खाजः। अचि खजः । उणादौ "शलि बलि-" (उ० ३४) इत्याके खजन्त्यनेनेति खजाको मन्थः, खजाका दर्वी ॥
१४७ खजु गतिवैकल्ये । गतेर्वैकल्यं विकृतत्वम् । उदित्त्वाद् नागमे खञ्जति । चखञ्ज । अचि खञ्जः । नन्द्यादित्वादने खञ्जनः । उणादौ “खर रीटः" (उ० १५२) खञ्जरीटः ॥
१४८ एज़ कम्पने । एजति । “गुरुनाम्यादेः-" ३।४।४८। इति परोक्षाया आमादेशे एजा15 चकार । ऋदित्त्वाद् “उपान्त्यस्यासमान--'' ४।२।३५। इति हस्वाभावे मा भवानेजिजत् । “एजेः" ५।१।११८। खश् , अङ्गमेजयः । एजुङ् दीप्तौ एजते ॥
१४९ ट्वोस्फूर्जा वज्रनिर्घोषे । स्फूर्जति । पुस्फूर्ज । यङि पोस्फूर्यते । यङ्लुपि पोस्फूर्जीति; दिवि "रात्सः” २।१।९०। इति नियमात् संयोगान्तलुगभावे अपोस्फूछ । वित्त्वात् "ट्वितोऽथुः"
५।३।८२। स्फूर्जथुः । ओदित्वात् क्तयोस्तस्य नत्वे आदित्वात् चेडभावे स्फूर्णः स्फूर्णवान् । “नवा 20 भावाऽऽरम्भे" ४।४।७२। इति वेडभावे स्फूर्णम् स्फूर्जितमनेन, प्रस्फूर्णः प्रस्फूर्जितः। “भ्वादेन -
मिनो--" २।१।६३। इति दीर्घ सिद्धे दीर्घोच्चारणं "भ्वादेः-" २।१।६३॥ इति दीर्घत्वस्यानित्यत्वज्ञापनार्थम् , तेन कुर्दते कुर्दनः इत्यपि सिद्धम् ॥
१५० क्षीज १५१ कूज १५२ गुज १५३ गुजु अव्यक्ते शब्दे । क्षीजति। चिक्षीज ॥
कूज । कूजति । चुकूज । क्ते कूजितम् । क्ते सेट्त्वाद् न घञि गत्वम् , कूजः ॥ गुज। 25 गोजति । जुगोज॥ गुजु । उदित्त्वाद् नागमे गुञ्जति । जुगुञ्ज । गुञ्जितम् । गुञ्जा ॥
१५४ लज १५५ लजु १५६ तर्ज भर्सने । लजति । ललाज ॥ लजु । उदित्त्वाद् नागमे लञ्जति । ललज । लजुण भासार्थः लञ्जयति ॥ तर्ज। तर्जति। ततर्ज। तर्जिण् सन्तर्जने तर्जयते॥
१ "क्तेऽनिटश्चजोः कगौ घिति" ४१।११॥ इत्यत्र ते परे अनिट्धातोर्गत्वविधानात् ॥ २"नन्द्यादिभ्योऽनः" ५।१॥५२॥ ३ "सुयत्याधोदितः"४२१७०। इत्यनेन ॥४ "आदितः"४४७१। इति सूत्रेण इडभावे "र-वर्णान्नो ग-१२।३।६३॥ इति णत्वे च ॥