________________
परस्मैधातवः १०५-१२१] स्वोपझं धातुपारायणम् । चक्त्वा चञ्चित्वा । क्तयोः चक्तः चक्तवान् । घनि चङ्कः । अचि चञ्चा तृणपुरुषः । उणादौ "मृदिकन्दि-" (उ०४६५) इत्यले चञ्चलः । चाचल इति तु चलेर्यङन्तादचि रूपम् , अत्र लस्यानुनासिकत्वाभावपक्षे पूर्वस्य म्वभावः, अनुनासिकत्वे तु मौ चञ्चल इत्यपि । “भू-मृ-तृ-त्सरि-"(उ० ७१६) इत्युप्रत्यये चञ्चुः ॥ तञ्चू । तञ्चति । तक्त्वा तञ्चित्वा। तक्तः तक्तवान् । उणादौ "ऋज्यजि-" (उ० ३८८) इति रे तक्रम् ॥ त्वञ्चू । त्वञ्चति । त्वक्त्वा त्वञ्चित्वा ॥ मञ्चू । मञ्चति । । अचि मञ्चः । मक्त्वा मञ्चित्वा । क्ते मक्तः। मचुङ् धारणोच्छ्राय-पूजनेषु च मञ्चते॥ मुञ्चू। मुञ्चति । मुक्त्वा मुश्चित्वा ॥ मुञ्चू । ढुञ्चति । मुक्त्वा मुश्चित्वा ॥ चू । मोचति । अद्यतन्याम् "ऋदिच्छ्रि-स्तम्भू-मुचू-म्लुचू-ग्रुचू-ग्लुचू-ग्लुञ्चू-जो वा" ३।४।६५। इत्यङि अग्रुचत् , अम्रोचीत् । मुक्त्वा, सेटः क्त्वो “वौ व्यञ्जनादे:-" ४।३।२५। इति वा कित्वे मुचित्वा मोचित्वा ॥
म्लुचू । म्लोचति । अम्लुचत् अम्लोचीत् । म्लुक्त्वा म्लुचित्वा म्लोचित्वा । “मूलविभुजा-" ५।१। 10 १४४। इति निपातनात् के मलिनं म्लोचति मलिम्लुचः ॥ ग्लुञ्चू । ग्लुञ्चति । अग्लुचत् अग्लुचीत् । ग्लुक्त्वा ग्लुञ्चित्वा॥ पस्च । “षः सो-"२।३।९८। इति षस्य सत्वे “सस्य शषौ" ११३१६१। इति सस्य शत्वे च सश्चति । षोपदेशत्वाद् णौ सनि पत्वे सिषश्चयिषति; सनि षत्वापन्ने "णि-स्तोरेवा-"२।३।३७। इति नियमात् षत्वाभावे सिसश्चिषति । यङि सासश्च्यते । यङ्लुपि सासश्चीति सासक्ति; दिवि असासक्, अत्र “ड्-नः सः त्सोऽश्वः" १।३।१८। इति श्चो वर्जनाद् 5 "दन्त्यसकारापदिष्टं कार्य तदादेशस्य तालव्यस्यापि भवति" इति “संयोगस्यादौ-"२।११८८। इति शस्य लुकि चस्य कत्वम् ॥
११७ ग्रुचू ११८ ग्लुचू स्तेये । गतावपि केचित् । पोचति । वा अङि अग्रुचत् अग्रोचीत् । ग्रुक्त्वा मुचित्वा ग्रोचित्वा । ग्लुचू । ग्लोचति । अग्लुचत् अम्लोचीत् । ग्लुक्त्वा ग्लुचित्वा ग्लोचित्वा । घञि ग्लोचः, लक्ष्यानुरोधात् कत्वाभावः ।।
20 अथ छान्ता एकादश सेटश्च
११९ म्लेछ अव्यक्तायां वाचि । “स्वरेभ्यः” १।३।३०। इति छस्य द्वित्वे म्लेच्छति । मिम्लेच्छ । अचि म्लेच्छः । यङ्लुपि मेम्लेष्टि; वस्मसोः “अनुनासिके च–' ४।१।१०८। इति छस्य शत्वे मेम्लेश्वः मेम्लेश्मः, निरनुनासिकत्वे तु शत्वाभावे मेम्लेच्छुः; दिवि अमेम्लेट् । "क्षुब्ध-विरिब्ध-"१।४।७०। इति निपातनात् के लिष्टमविस्पष्टम् , म्लेच्छितमन्यत् ।।
१२० लछ १२१ लाछु लक्षणे । छस्य द्वित्वे लच्छति, लक्षयतीत्यर्थः, अङ्कयतीति वा । लाछु । उदित्त्वाद् नागमे लाञ्छति, स एवार्थः। विपि लान् । यङ्लुपि लालांष्टि; क्विपि "अनुनासिके च-” ४।१।१०८। इति शत्वे संयोगान्तलोपे लालान् । अनटि लाञ्छनम् ॥
१ लक्षयतीत्यर्थः , अङ्कयतीति वा योऽर्थः ।।
25