________________
आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे १२२ वाछु इच्छायाम् । उदित्त्वाद् नागमे वाञ्छति, वाञ्छा, वाञ्छितम् । क्विपि वान् वांशौ वांशः॥
१२३ आछु आयामे । उदित्त्वाद् नेऽन्ते आञ्छति । क्ये आञ्छयते । “अनातो नश्वा-" ४।१।६९। इत्यातो वर्जनाद् आत्व-नागमयोरभावे आञ्छ आञ्छतुः। विपि आन् , स्वान् स्वांशी 5 स्वांशः । क्ते आञ्छितः ॥
१२४ हीछ लजायाम् । छस्य द्वित्वे ह्रीच्छति । जिहीच्छ । हीच्छा ॥ - १२५ हुर्छा कौटिल्ये । इर्छति, "भ्वादेर्नामि-" २।१।६३। इति दीर्घत्वम् । आदित्त्वात्
"आदितः” ४४४७१। इति क्तयोरेडभावे हूर्णः हर्णवान् । “नवा भावारम्भे" ४।४७२। इति
वेडभावे हूर्छितम् हर्णमनेन, प्रहूर्छितः प्रहूर्णः । यङ्लुपि “राल्लुक्" ४।१।११०। इति छस्य 10 लुकि "लघो:-" ४।३।४। इति गुणे जोहोर्ति, ईति जोहुर्थीति । किपि हू: हुरौ हुरः ॥ .. .
१२६ मुर्छा मोह-समुच्छ्राययोः । मूर्छति । आदित्त्वात् क्तयोरिडभावे मूर्तः मूर्तवान् , "र-दादभूर्छ-"४।२।६९। इति वर्जनात् क्तयोस्तस्य न नत्वम् । क्तेऽनिट्त्वात् "क्तेटो गुरोः-"५।३।१०६। इत्यप्रत्ययाभावे क्तौ मूर्तिः । मूछेति तु भिदादित्वादङि । तारकादित्वात् इते मूर्छितः । “नवा भावा
रम्भे" ४।४।७२। इति वेडभावे मूर्छितम् मूर्तमनेन, प्रमूर्तः प्रमूर्छितः ॥ 15 १२७ स्फुर्छा १२८ स्मुर्छा विस्मृतौ । स्फूर्छति । स्फूर्णः । स्फूर्छितम् , स्फूर्णमनेन । क्तौ . स्फूर्तिः ॥ स्मुर्छा । स्मूर्छति । स्मूर्णः स्मर्णवान् । स्मूर्छितम् स्मर्णमनेन स्मूर्छा ॥
१२९ युछ प्रमादे । छस्य द्वित्वे युच्छति । “श्यशवः" २।१।११६॥ इत्यतुरन्तादेशे युच्छन्ती। क्विपि युट् ॥ अत्र 'उछु उञ्छे, उछै विवासे' इति केचित् पठन्ति, तदयुक्तम् , तुदादिपठि
ताभ्यामेवामूभ्यामभिमतरूपसिद्धेः ॥ 20 अथ जान्ताश्चतुश्चत्वारिंशत् त्यज-पञ्जवर्जाः सेटश्च
१३० धृज १३१ धृजु १३२ ध्वज १३३ ध्वजु १३४ ध्रज १३५ ध्रजु १३६ वज १३७ व्रज १३८ पस्ज गतौ । धर्जति । दधर्ज । यङि "ऋमतां रीः” ४।१।५५। दरीधृज्यते । इकारोपान्त्योऽयमिति केचित् , धेजति ॥ धृजु । उदित्त्वाद् नागमे धृञ्जति । दधृञ्ज । दरीधृज्यते ॥ ध्वज । ध्वजति । “व्यञ्जनादेर्वोपान्त्यस्यातः” ४।३।४७। इति वा वृद्धौ अध्वाजीत् अध्व25) जीत् । अचि ध्वजः ॥ ध्वजु । उदित्त्वाद नागमे ध्वञ्जति । दध्वञ्ज । यङि दाध्वञ्ज्यते ॥
ध्रज । ध्रजति । दध्राज । अध्राजीत् अध्रजीत् ॥ ध्रजु । उदित्त्वाद् नागमे ध्रञ्जति । दध्रञ्ज । यडि दाध्र-ज्यते ॥ वज । वजति । अवाजीत् अवजीत् । “अनादेशादेः--"४।१।२४। इत्येत्वस्य "न शस-दद्र-" ४।१।३०। इति प्रतिषेधात् ववजतुः ववजुः । घञि वाजो नेग-पक्षी,
१ "भिदादयः" ५।३।१०८॥ २ "तदस्य सञ्जातं तारकादिभ्य इतः" ॥१।१३८॥ ३ मूर्छा सजाता अस्य इति विग्रहः ॥