________________
२०
आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे इति के अर्कः । “रुच्यर्चि-" (उ० ९८९) इतीसि अर्चिः । अर्चिण् पूजायाम् अर्चयति, अर्चते ।।
१०५ अञ्चू गतौ च । चकारात् पूजायाम् । अञ्चति। "क्रियाव्यतिहारेऽगति-"३।३।२३। इति गत्यर्थवर्जना गतौ नाऽऽत्मनेपदम् , व्यत्यञ्चति मिथुनं ग्रामम् ; पूजायां तु प्रतिषेधाभावादात्मनेपदमेव,
व्यत्यञ्चते मिथुनं देवम् । क्ये गतौ "अञ्चोऽन_याम्" ४।२।४६। इति नलुकि अच्यते; पूजायामर्चा5 वर्जनाद् नलोपाभावे अञ्च्यते । “अनातो-" ४।१।६९। इति पूर्वस्याऽऽत्वे नेऽन्ते च आनश्च । ऊदि
त्त्वाद् "उदितो वा" ४।४।४२। इति क्त्वायां वेटि अक्त्वा अञ्चित्वा; अर्चायां "लुभ्यश्चेः-" ४।४।४४। इति क्तयोः क्त्वायां च नित्यमिट्, अञ्चिता अस्य गुरवः, अश्चितवान् गुरून् , अञ्चित्वा गुरून् । “पूदिव्यञ्चेः-" ४।२।७२। इति क्तयोर्नत्वे “समक्नौ शकुनेः पादौ"; "-अनपादाने" ४।२।७२।
इत्युक्तेः “उदक्तमुदकं कूपात्", सापादानार्थे न नत्वम् । क्कावर्चायां नलोपाभावेऽनर्चायां तु नलुक्यपि 10 "अचः" १।४।६९। इति घुटि नागमे प्राङ् प्राञ्चौ प्राञ्चः; शसादौ गत्यर्थे प्राचः प्राचेत्यादि, पूजने
तु नलोपाभावे "अच्च् प्राग्-" २।१।१०४। इति चोऽभावे प्राञ्चः प्राञ्चेत्यादि । “भावाकोः" ५।३।१८। पञि पर्यङ्कः पल्यतः, “क्तेऽनिट-" ४।१।१११॥ इति कत्वम् । “उदकोऽतोये" ५।३।१३५॥ इति निपातनाद् घञि उदच्यतेऽनेनेति उदको घृतस्य; तोये तु जलोदश्चनः, “करणा
धारे" ५।३।१२९। इत्यनट् । उणादौ “अञ्चेः क च वा" (उ० ६५६) इत्यतौ अङ्कतिः, कत्वाभावे 15 अञ्चतिः । “नेरच्चेः” (उ० ७२४) इत्युप्रत्यये न्यङ्कः, न्यैवादित्वात् कत्वम् , कत्वाभावे न्यञ्चुः स्वेदबिन्दुः ॥
१०६ वञ्चू १०७ चञ्चू १०८ तञ्चू १०९ त्वञ्चू ११० मञ्चू १११ मुञ्चू ११२ मुञ्चू ११३ बुचू ११४ म्लुचू ११५ ग्लुञ्चू ११६ पस्च गतौ । पस्चवर्जा ऊदितो दश ।
वञ्चति । यडि "वञ्च-संस-" ४।१।५०। इति न्यागमे वनीवच्यते । यङन्तादचि वनीवचः । 20 यङ्लुपि वनीवञ्चीति । ऊदित्त्वात् क्त्वायां वेट् , वक्त्वा; इटि "ऋत्तष-" ४।३।२४। इति क्त्वो वा
कित्त्वे वचित्वा वञ्चित्वा । वेट्त्वात् क्तयोर्नेट् इतीडभावे वक्तः वक्तवान् । वञ्चित इति तु वञ्चिण प्रलम्भने इत्यस्य । घनि “न वञ्चेर्गतौ" ४।१।११३। इति कत्वाभावे "वञ्चं वश्चन्ति वाणिजाः"; गतेरन्यत्र कत्वे वकं काष्ठम् , "नाम्नि" ३।२।७५। इति दीर्घ अष्टावकः । णौ फलवत्कर्तर्यात्मनेपदे
प्राप्ते “चल्याहारार्थे-" ३।३।१०८। इति परस्मैपदं भवति, अहिं वश्चयति, गमयतीत्यर्थः । णिगन्तात्तु 25 प्रलम्भने वर्तमानादफलवत्कर्तर्यपि "प्रलम्भे गृधि-वच्चेः" ३।३।८९। इत्यात्मनेपदम् , बालं वश्चयते ।
अणिगन्तस्तु प्रलम्भने पश्चिण् प्रलम्भने इति चुरादिरयम् , बालं वञ्चयते । चौरादिकादेव णिचि णिगन्तात् प्रलम्भे इत्यात्मनेपदमित्येके । उणादौ "भृ-शी-शपि-"(उ० २३२) इत्यथे वञ्चथः अध्वा । "ऋज्यजि-" (उ० ३८८) इति किति रे वक्रम् , न्यङ्कादित्वात् कत्वम्॥ चञ्चू । चञ्चति ।
१ सापादानेऽर्थे वा० ॥ २ तेऽनिट्त्वात् कत्वम् संपा०१ वा०॥ ३ञ्चनी, "क" वा० ॥ ४-५ 'न्य कृद्रमेघादयः' ४।१।११२॥