________________
परस्मैधातवः १०-२०] स्वोपमं धातुपारायणम् । शवः । उणादौ "भीण्शलि-" (उ० २१) इत्यादिना नञ्पूर्वात् के अशोकः । “विचि-पुषि-मुषि-" (उ० २२) इत्यादिना किति के शुकः । “चि-जि-शु-" (उ० ३९२) इति रे दीर्धे च शूरो विक्रान्तः । "ऋच्छि -चटि-" (उ० ३९७) इत्यरे शबरः॥ तूं । सवति । स्रोता । “णि-श्रि-" ३।४।५८। इति डे असुनुवत् । णौ "चल्याहारार्थे-" ३।३।१०८। इति फलवत्कर्तर्यपि परस्मैपदम् , सावयति। सन्परे णौ "श्रु-सु-" ४।१६१। इति पूर्वस्योतो वेत्वे सिस्रावयिषति सुसावयिषति । ङपरे णौ सन्व- 5 द्भावात् असिस्रवत् असुस्रवत् । “वा ज्वला-"५।१।६२। इति णे आसावः, पंक्षेऽचि आस्रवः । “दिद्युद्दहृद्-"५।२।८३॥ इति क्विपि निपातनात् सवतीत्येवंशीलः सूः । “प्रात् सु-द्रु-स्तोः" ५।३।६७। घनि प्रसावः। "श्वादिभ्यः" ५।३।९२। तो सूयतेऽनयेति सुतिः । उणादौ "निघृषि-" (उ० ५११) इति किति वे स्रवत्यस्मादिति सुवः, "स्रोश्चिक्” (उ० ८७१) सवत्यस्या हविरिति झुक्, भीमादित्वादपादाने साधू । “सुरीभ्यां तस्” (उ० ९७८) स्रोतः ॥
10 १६ ध्रु स्थैर्ये च । चकाराद् गतौ । भ्रवति । अनुस्वारेत्त्वात् प्रोता, प्रोष्यति। धुत् गति-स्यैर्ययोः इत्यस्य ध्रुवति । अचि कुटादित्वाद् ङित्त्वे ध्रुवः ॥
१७ सुं प्रसवैश्वर्ययोः। गतावप्येके । सवति । अनुस्वारेत्त्वात् सोता, सोष्यति । अपोपदेशत्वात् षत्वाभावे सुसाव । येषां तु षोपदेशोऽयं तन्मते षत्वे सुषाव । पुंक् प्रसवैश्वर्ययोः इत्यस्य सौति । पुंग्ट अभिषवे इत्यस्य तु सुनोति सुनुते ॥
15 इतः परमृदन्ता नव१८ स्मृ चिन्तायाम् । स्मरति । अनुस्वारेत्त्वात् स्मर्ता, स्मर्तुम् । ऋदन्तत्वात् "हनृतः स्यस्य" ४।४।४९। इति प्रतिप्रसवादिडपि. स्मरिष्यति । णौ स्मारयति । आध्याने घटादित्वात् स्मरयति । इपरे णौ "स्मृ-दृ-त्वर-" ४११६५। इति सन्वद्भावापवादे पूर्वस्यात्वे असस्मरत् । “स्मृ-दृशः" ३।३।७२। इति सन्चन्तादात्मनेपदे सुस्मर्षते । “स्मृत्यर्थ-" २।२।११। इति कर्मणो व्याप्यत्वविकल्पनाद् मातुः 20 स्मरति, मातरं स्मरति । णौ सनि सिस्मारयिषति, अघोपदेशत्वान्न षत्वम् । स्मरति कोकिलो वनगुल्मम् , स्मरयत्येनं वनगुल्मः, अत्र “अणिकर्म णिकर्तृकाण्णिगोऽस्मृतौ" ३।३।८८। इति स्मृत्यर्थवर्जनादात्मनेपदं न भवति । "पुनाम्नि-" ५।३।१३०। इति धे स्मरन्त्यनेनेति स्मरः । तौ स्मृतिः। स्मृट् पालने च स्मृणोति ॥
१९ गूं २०७ सेचने । गरति। जगार। अनुस्वारेत्त्वात् गर्ता । ऋदन्तत्वादिटि गरिष्यति ॥ 25
घं। घरति । जघार। उणादौ "सृणीकास्तीक-" (उ० ५०) इतीके निपातनात् घर्घरीका घण्टिका । “घृ-वी-हा-" (उ० १८३) इति किति णे घृणा । "शी-री-" (उ० २०१) इति किति ते घृतम् । “अर्तीरि-" (उ० ३३८) इति मे धर्मः । "ऋद्-" (उ० ६३५) इति किति णौ घृणिः।
१ "भीमादयोऽपादाने' ५।१॥१४॥२ "कुटादेविद्-" ४।३।१४॥३ "घटादेहस्यो-" ॥२॥२४॥