________________
आचार्यश्रीहेमचन्द्रविरचितं
[भुवादिगणे यथाभिधानमस्य प्रयोगः, अनुस्वारेत्त्वाच्च स्ताद्यशिति यद्यस्तिप्रयोगस्तदाऽनिदत्वं ज्ञेयम् । घृण स्रवणे इत्यस्य तु घारयति, धारयामास ॥ __ २१ औस्व शब्दोपतापयोः। स्वरति । सम्पूर्वस्य “समो गम्-" ३।३।८४। इत्यात्मनेपदम् , सं
स्वरते। औदित्त्वाद वेद, स्वर्ता स्वरिता । सुस्वर्षति सिस्वरिषति । “हनृतः स्यस्य" ४।४।४९॥ इति 5 नित्यमिटि स्वरिष्यति। णौ सनि सिस्वारयिषति, अपोपदेशत्वात् षत्वं नास्ति । सिस्वरयिषतीति तु स्वरण आक्षेपे इत्यस्यादन्तस्य । अचि स्वरः । उणादौ "भृ-मृ-तृ-त्सरि-" (उ० ७१६) इत्युः, स्वरुवज्रः । “गम्यमि-रम्यजि-" (उ० ९२) इति गे स्वर्गः॥
२२ , वरणे। वरणं स्थगनम् । द्वरति । दद्वरतुः दद्वरुः। अनुखारेत्त्वात् द्वर्ता । “हनृतः स्यस्य" ४।४।४९। इतीटि द्वरिष्यति । घभि णिगन्तादचि वा द्वारम् । उणादौ “वाारौ'"(उ० ९४४) 10 इति क्विपि द्वारयतीति द्वाः॥
२३ वू २४ हूं कौटिल्ये। अनुस्वारेतौ। ध्वरति । दध्वरतुः दध्वरुः । इरति । जहरतुः जहरुः । वर्ता, हर्ता । "हनृतः स्यस्य"४।४।१९। इतीटि ध्वरिष्यति, हरिष्यति। यङि “क्य-या-" ४।३।१०। इति गुणे दाध्वर्यते । यङ्लुपि दरिवर्ति दलर्ति दरीध्वरीति । एवं हरतेरपि । अचि न
ध्वरतीत्यध्वरः ॥ 16 २५ सं गतौ। सरति, प्रसरति । "वेगे सर्तेर्धात्" ४।२।१०। धावति । क्ये सियते।
"सबंर्तेर्वा' ३।४।६१। इत्यङि असरत् , पक्षे असार्षीत् । अनुस्वारेत्त्वाद् नेट् , सर्ता । "हनृतः स्यस्यै" ४।४।१९। इति इटि सरिष्यति । "स्क्रादि-" ४।४।८१॥ इत्यनुस्वारेतामपि परोक्षायामिड्विहितस्तत्र सृवर्जनाद् न भवति, ससृव ससृम ससर्थ । णौ सनि सिसारयिषति, षोपदेशाभावाद् न षत्वम् । “वर्योपसर्या-" ५।१॥३२॥ इति घ्यणपवादे ये उपसर्या ऋतुमती चेत् , उपसार्याऽन्या। "कुप्य-भिद्योध्य-" 20 ५।१३९इति निपातनात् क्यपि सूर्यः । “-सू-स्खोऽकः साधौ" ५।१।६९। इत्यके साधु सरति
सरकः । णके अभिसारिका । “पुरोऽप्र-" ५।१।१४०। इति टे पुरःसरः, पुरःसरी । “पूर्वात् कर्तुः" ५।१।१४१। पूर्वसरः, पूर्वसरी । “भूषा-क्रोधार्थ-" ५।२।४२। इत्यने सरतीत्येवंशीलः सरणः । “विपरि-प्रात् सर्तेः" ५।२।५५। इति घिनणि विसरतीत्येवंशीलो विसारी, एवं परिसारी प्रसारी। “स
घस्य-" ५।२।७३। इति मरकि समरः । “सृ-जीण-" ५।२१७७। इति देवरपि सृत्वरः, सूत्वरी । “सर्तेः 26 स्थिर-" ५।३।१७ इति पनि अवयवैरन्योन्यं सरति धावतीति सारः, चन्दनसारः, अतिधावतीत्य
तीसारो व्याधिः, सारो बलम् , विसारो मत्स्यः । “सू-लहः-"५।३।३१। इत्यलि गवामुपसरः । “भावाकोंः" ५।३।१८। घञि आसारः प्रसारः। विसर-प्रसरौ त्वलि बाहुलकात् । उणादौ "द-क-न-"
१'स्येदि. व सं१ सं२ ॥ २'स्येति स वा० खे० संपा१ विना ॥३ "स्कस--भृ-स्तु-द्रश्र-झोयंजनादेः परोक्षायाः" ४।४।८१। इत्यत्र स्कृप्रभृतीनां अनुस्वारेतामपि सर्वधातूनां परोक्षायामिड्30 विधानेऽपि अस इति भणनात् इट् न भवति ॥ ४ न्यं धा संपा १ वा. प्र.सं१ सं२ तपा. मु.॥