________________
आचार्यश्रीहेमचन्द्रविरचितं
[भुवादिगणे लिप्सायाम्" ३।३।६१। भिक्षुर्दातृकुलमुपतिष्ठते उपतिष्ठति वा। "उदोऽनूइँहे" ३।३।६२। मुक्तावुत्तिष्ठते । “सं-वि-प्रावात्" ३।३।६३। संतिष्ठते वितिष्ठते प्रतिष्ठते अवतिष्ठते । “ज्ञीप्सा-स्थेये" ३।३।६४। तिष्ठते कन्या च्छात्रेभ्यः, "श्लाघ-हु-स्था-शपा प्रयोज्ये” २।२।६०। इति चतुर्थी।
संशय्य कर्णादिषु तिष्ठते यः । (किराता० सर्ग ३ श्लो० १४) 5 "प्रतिज्ञायाम्" ३।३।६५। तदतदात्मकं तत्त्वमातिष्ठते । “उपात् स्थः" ३३१८३॥ इति कर्मण्य
सति भोजने उपतिष्ठते । “अधेः शीङ्-स्थास आधारः" २।२।२०। इत्याधारस्य कर्मत्वे गृहमधितिष्ठति । क्ये "ईर्व्यञ्जनेऽयपि" ४।३।९७। इतीत्वे स्थीयते । “पिबैति-" ४।३।६६। इत्यादिना सिचो लुपि अस्थात् । “इश्च स्था-दः" ४।३।४१। इति इत्वे कित्त्वे च उपास्थित । प्रत्यष्ठात् कठकालापम् ,
अत्र “स्था सेनि-" २।३।४०। इत्यादिनाऽड्व्यवधानेऽपि षत्वं "चरणस्य स्थेणोऽद्यतन्यामनुवादे" ३। 10 १।१३८। इति द्वन्द्वस्यैकार्थत्वम् । अधितष्ठौ, अत्र द्वित्वेऽपि षत्वम् । अनुखारेत्त्वात् नेट् ,अधिष्ठास्यति ।
ङपरे णौ “तिष्ठतेः" ४।२।३९। इत्युपान्त्यस्येत्वे अतिष्ठिपत् । “प्रवचनीयादयः" ५।१।८। इति वा कर्तर्यनीये उपस्थानीयो गुरोश्चैत्रः, पक्षे यथाप्राप्तम् , कर्मणि उपस्थानीयो गुरुः शिष्येण, भावे उपस्थानीयं शिष्येण । “श्लिष-शीङ्-'" ५।१।९। इत्यादिना च कर्तरि ते उपस्थितो गुरुं शिष्यः, पक्षे कर्मणि
उपस्थितो गुरुः शिष्येण, भावे उपस्थितं शिष्येण, अत्र "दो-सो-मा-" ४।४।११। इत्यादिनेत्वम् । 15 "ग्रहादिभ्यो णिन्" ५।१।५३। स्थायी । “स्था-पा-"५।१।१४२॥ इत्यादिना के प्रतिष्ठते प्रष्ठः,
अत्र “प्रष्ठोऽग्रगे" २।३।३२। इति षत्वम् । परमेष्ठः, अत्र “गो-ऽम्बा-ऽऽम्ब-"२।३।३०। इत्यादिना षत्वम् । क्विपि साक्षाद् व्यञ्जन एवेत्वविधानादीत्वाभावे संस्थाः । संस्थाशब्दादन्यत्र लुप्तव्यञ्जनेऽपीच्छन्त्येके । तथा च जयकुमारः पां पाने इत्यस्य विपि पीरित्याह । “स्था ग्ला-" ५।२।३१। इत्या
दिना नौ स्थास्नुः ।"श-कम-"५।२।४०। इत्यादिना उकणि स्थायुकः । “स्थेश-"५।२।८१। इत्या20 दिना वरे स्थावरः। “स्थादिभ्यः कः" ५।३।८२। इति के आखूनामुत्थानमाखूत्यो वर्तते, अत्र “उदः
स्था-स्तम्भः सः” १।३।४४। इति सो लुक् । गावस्तिष्ठन्त्यस्मिन्निति गोष्ठम् , “गो-ऽम्बा-ऽऽम्ब-" २।३।३०। इत्यादिना षत्वम् । “स्थो वा" ५।३।९६॥ इति तो व्यवस्थितिः, पक्षे "उपसर्गादातः" ५।३।११०। इत्यङि व्यवस्था । व्यवस्था शीलमस्येति “अस्था-च्छत्रादेरञ्' ६।४।६०। इत्यनि
वैयवस्थः । उणादौ "स्था-क्षुतोरूच्च" (उ० १८५) इति णे ऊदादेशे च स्थूणा । “शुषीषि-बन्धि-" 25 (उ० ४१६) इत्यादिना कितीरे स्थिरः। “स्थविर-" (उ० ४१७) इत्यादिनिपातनाद् इरे स्थविरः।
"स्था-विडेः कित्" (उ० ४२९) इत्यूरे स्थूरः। “स्थो वा" (उ० ४७३) इत्यले स्थलम् , स्थली अकृत्रिमा चेत् , डिवाभावपक्षे स्थालं स्थाली। "किति-कुडि-" (उ० ५१८) इत्यादिना कित्यवे स्थवः । “अजि-स्था-" (उ० ७६८) इत्यादिना णौ स्थाणुः । “सव्यात् स्थः” (उ० ८५५) इति डिति ऋप्रत्यये सव्ये तिष्ठतीति सव्येष्ठा । अत्र भीरुष्ठानादित्वात् षत्वम् । “प्रात् स्थः” (उ० ९२४) 30 १ "भीरुष्ठानादयः" २॥३॥३३॥