________________
परस्मधातवः १] स्वोपचं धातुपारायणम् ।
"भावयेज्ज्योतिरान्तरम्" इत्यनेकार्थत्वाद ध्यायेदित्यर्थः । यडि बोभूयते । यङ्लुपि बोभवीति बोभोति । सनि बुभूषति । सन्नन्ताण्णिगि बुभूषयति । यङन्ताणिगि बोभूययति । यङ्लुबन्ताणिगि बोभावयति । णिगन्ताणिगि भावयति । णिगन्तात् सनि बिभावयिषति । ("तुमर्हादिच्छायां सन् )अतत्सनः"३।४।२१। इति वचनादिच्छासमन्तात् सन् नास्ति । (“व्यञ्जनादेः) एकस्वराद्" ३।४।९। इति वचनात् सन्-यङ्यङ्लुबन्तेभ्योऽनेकस्वरेभ्यो यङ् नास्ति ।
विशेषास्तु-"च्ळ्यर्थे भृशादेः स्तोः" ३।४।२९। इति क्यङि अभृशो भृशो भवति भृशायते, अत्र भवत्यर्थोपगृहीते च्च्यर्थे क्यविधानम् , अत एव क्यङन्तस्य क्रियार्थत्वेन धातुत्वं भवतेश्चाप्रयोगः । “भूङः प्राप्तौ णिङ्" ३।४।१९। भावयते पदम् , प्रामोतीत्यर्थः, पक्षे उत्साहाद् भवते लक्ष्मीम् । “धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्ति चानु तदन्तम्" ३।४।४६। चकासाम्बभूव । "भू-स्वपोरदुतौ" ४।१।७०। बभूव, अत्र स्वरविधेः प्रागेव द्विवचने वृद्धावावादेशे च "भुवो वः 10 परोक्षा-ऽद्यतन्योः ४।२।४३। इत्युपान्त्यस्योत् । “पिबैति-दा-भू-स्थः सिचो लुप् परस्मै न चेट्" ४।३।६६। अभूत् , अत्र "भवतेः सिज्लुपि" ४।३।१२। इति गुणप्रतिषेधः । अभूवन् , अत्र “सिज्विदोऽभुवः" ४।२।९२। इति पुस् न भवति । “न ख्या-पूग्-भू-भा-कम-गम-प्याय-वेपो णेश्च" २।३।९०। प्रभवनम् प्रभावना, अत्र "स्वरात्" २२३८५। इति “णे;" २।३।८८। इति च णत्वं प्राप्तं न भवति । “भव्य-गेय" ५।१७। इत्यादिना कर्तरि ये भव्यः पुमान् , पक्षे भावे भव्य- 15 मनेन । आवश्यके घ्यणि भाव्यम् । अवश्यभाव्यमनेन "कृत्येऽवश्यमो-"३।२।१३८। इति मो लुक् । “हत्या-भूयं भावे" ५।१।३६। ब्रह्मणो भवनं ब्रह्मभूयम् । “ग्रहादिभ्यो णिन्" ५।१५३। परिभवतीति परिभावी, परिभवी पक्षे, इस्वत्वं गणनिपातनात् , भूते त्वभिभावी । “वा ज्वलादि-दुनी-भू-अहा-ऽऽस्रोर्णः" ५।१६२भवतीति भावः, पक्षे अचि भवः । “नम-"५।१।१२८। इत्यादिना खिष्णु-खुकञोः अनाढ्य आढयो भवति आढयम्भविष्णुः आढ्यम्भावुकः । “भावे चाशिताद्भुवः 20 खः" ५।१।१३०। आशितस्य-तृप्तस्य भवनमाशितम्भवो वर्तते, आशितो भवत्यनया आशितम्भवा पञ्चमूली । “भ्राज्यलम्-" ५।२।२८। इत्यादिना इष्णौ भवतीत्येवंशीलो भविष्णुः । “भू-जेः ष्णुक" ५।२।३०। भूष्णुः । “श-कम-" ५।२।४०। इत्यादिना उकणि भावुकः । “जीण--क्षि-" ५।२।७२। इत्यादिना इनि परिभवी । “दिद्युद्-दहद्-"५।२।८३॥ इत्यादिना विपि मित्रं भवतीति मित्रभूः, धनिक-धारकयोरन्तरे प्रतिभवतीति प्रतिभूः । “शं-सं-स्वयं-वि-प्राद् भुवो डुः" ५। 20 २।८४। शम्भुः सम्भुः स्वयम्भुः विभुः प्रभुः । “भू-श्यदोऽल्" ५।३।२३। प्रभवः अनुभवः । प्रभावाद्यास्तु बाहुलकाद् पनि प्रादिसमासो वा । "भुवोऽवज्ञाने वा" ५।३।६४। परिभावः, पक्षे अलि परिभवः । “भ्यादिभ्यो वा" ५।३।११५। इति किपि भवत्यस्याः सर्वमिति भूः, पक्षे तौ भूतिः । “च्च्यर्थे काप्याद् भू-कृगः" ५।३।१४०। कृच्छ्रेणाऽनाढयेनाऽऽढयेन भूयते दुराढ्यम्भवं
१ "ध्यण्यावश्यके” ४।१।११५। इति हैमसूत्रम् ॥२ मासे वा तपा० ॥३ पक्षे "थ्यादिभ्यः" 30 ५।३।९२॥ इति को वा. प्रतौ संशोधकेन वर्धितम् ॥