________________
आचार्यश्रीहेमचन्द्रविरचितं
[भुवादिगणे सुखम् , संवेद्यते इत्यर्थः । अर्थान्तरे हि वर्तमानस्याकर्मकस्यापि सकर्मकत्वं भवति । “काला-ऽध्व-भावदेश--"२।२।२३। अपेक्षया च सर्व एव धातवः सकर्मकाः । मासमास्ते, क्रोशो गुडधानाभिर्भूयते, गोदोहं खपिति, कुरून् शेते । अर्थान्तरवृत्त्यादिना च सकर्मकस्याप्यकर्मकत्वं भवति । यदाह
धातोरान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात् । प्रसिद्धरविवक्षातः, कर्मणोऽकर्मिका क्रिया ॥ इति । 5 अर्थान्तरे वर्तमानाद् धातोः सकर्मकस्याप्यकर्मिका क्रिया भवति, यथा भार वहति, उद्य
च्छतीत्यर्थः; नदी वहति, स्रवतीत्यर्थः। कर्मणो धात्वर्थान्तःप्रवेशादकर्मकत्वम् , यथा जीव प्राणधारणे जीवति, हदिं पुरीपोत्सर्गे हदते, अत्र प्राण-पुरीषाख्ये कर्मणी धात्वर्थेनैव क्रोडीकृते । कर्मणः प्रसिद्धत्वात् , यथा देवो वर्षति । न पुनरत्र, रक्तं वर्षति, पार्थः शरान् वर्षति । कर्मणोऽवि
वक्षितत्वात् , यथा नेह पच्यते, नेह भुज्यते । कर्माविवक्षा चौदासीन्यनिवृत्तिमात्रपरतया प्रयोगात्, 10 यथा 'किं करोति' इति प्रश्ने 'पचति पठति' इत्यादि प्रत्यवस्थानम् , न तु भवति विद्यते वेत्यादि, .
तेषामपर्यनुयोज्यत्वात् । यत्तु 'किं करोति' इति प्रश्ने ‘भवति' इत्युत्तरं तत् क्रियाख्यकर्मनिबन्धनम् , न तु बाह्यकर्मापेक्षं भवनम् , करोतीत्यर्थावगमात् । क्रिया हि सर्वधातूनामान्तरं कर्म, अत एव क्रियाविशेषणानां कर्मत्वं स्मरन्ति ।
नन्वेवं "क्रियाविशेषणात्" २।२।४१॥ इति योगो व्यर्थः, “कर्मणि" २।२।४०। इत्येव द्वितीया15 सिद्धः, नैवम् , आन्तरकर्मणा सकर्मणोऽप्यकर्मककार्यप्रतिपयर्थत्वाद् योगस्य, तेन 'सुखं सुप्त' इत्यादौ
कर्तरि क्तः सिद्धः, 'सुखं स्थाता' इत्यादौ कृन्निमित्ता षष्ठी न भवतीति । अत एव सकर्मका-ऽकर्मकव्यवहारो द्रव्यकर्मनिमित्त उच्यते । यदाह
सकर्मका-ऽकर्मकत्वं, द्रव्यकर्मनिबन्धनम् । इति । भू इति निरनुखारस्य पाठाद् “एकस्वरादनुखारेतः” ४।४।५६। इत्यनिट्त्वं न भवति । सेट्ल्वा20 ऽनिट्त्वे च यद्यपि "स्ताद्यशितोऽत्रोणादे:-"४।४।३२। इति प्रत्ययस्याऽऽदौ विधानात् प्रत्ययस्यैव, तथाप्युपचारेण धातोरिति । व्यत्यभविष्ट, व्यतिभविषीष्ट, भविता, भविष्यति, अभविष्यत् , भवितव्यम् , भविता, भवितुम् । “उवर्णात्" ४।४।५८। इतीट्प्रतिषेधात् भूतः, भूतवान् , भूतिः, भूत्वा । एवं पदस्य साक्षात्प्रकृतिर्भूरुदाहृतः । परम्पराप्रकृतिस्तूदाहियते--णिगि भवन्तं प्रयुक्ते भावयति, करोतीत्यर्थः । यदाहुः25
नित्यं न भवनं यस्य, यस्य वाऽनित्यभूतता । न तस्य क्रियमाणत्वं, खपुष्पा-ऽऽकाशयोरिव ॥ तेन भूतिषु कर्तृत्वं, प्रतिपन्नस्य वस्तुनः ।
प्रयोजकक्रियामाहुर्भावना भावनाविदः ॥ इति। १ यदाहुः सं२ ॥२ सिद्धार्थत्वात् वा० ॥ ३ वति । अस१॥ ४ धातोरपि । व्य' खे० 30 संपा१ प्र.॥५ भावानां भा सं१ तपा.॥