________________
परस्मैधातवः १] स्वोपझं धातुपारायणम् । वतीति भागागतिः । उद्भवतीति उद्भेदः । प्रतिभवतीति लमकत्वमिति ।
अथवाऽर्थान्तरेष्वपि क्रियासामान्यरूपा सत्ताऽनुवर्तत एवेति सत्ताया एवोपादानं कृतम् । सत्ताव्यतिरेकीणि ह्यान्तराणि खरविषाणायमानानि स्युः । “षड् भावविकाराः” इति वचनाच्च भावः सत्ता सामान्यरूपा क्रियेत्यवसीयते। यदाहुँः
"जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यतीति षड् भावविकाराः" इति।
अपि च सर्वेऽपि खलु धातवस्तेन तेनोपाधिना सत्तामेवावच्छिद्यावच्छिद्य विषयीकुर्वन्तीति सा क्रियासामान्यमित्युच्यते। तथा च "क्रियार्थो धातुः" ।३।३।३। इति भुवो धातुत्वम् ।
आत्मनेपदोभयपदानुबन्धाभावाच्च "शेषात्-"३।३।१००। कर्तरे परस्मैपदम् अपवादाभावाच्च औत्सर्गिकः शव् , भवति भवतः भवन्ति, भवसि भवथः भवथ, भवामि भवावः भवामः । एवं सप्तम्यादिषु । शतरि भवन् । “क्रियाव्यतिहारे-"३।३।२३। "भावकर्मणोः" ३।४।६८। चाऽऽत्मनेपदं 10 च। व्यतिभवते व्यतिभवेते व्यतिभवन्ते । एवं सर्वत्र । आनशि व्यतिभवमानः । भावे चैत्रेण भूयते । भावस्यासत्त्वरूपत्वेन सङ्ख्याधभावाद् द्विवचन बहुवचने न भवतः । एकवचनं तु न व्यादिप्रतिपक्षकत्वसङ्ख्यानिबन्धनम् , किन्त्वभेदैकत्वनिबन्धनम् । “एकवचनमुत्सर्गः करिष्यते" इति हि भाष्यम् । अत एव युष्मदस्मत्कर्तृकत्वेऽपि द्वितीय-तृतीयत्रिके न भवतः । त्वया भूयते, मया भूयते । कर्मणि अनुभूयते
१ “भावस्य क्रियायाः षट् प्रकारा इत्यर्थः । तेषु चास्तिः पठित इति तस्यापि क्रियात्वमित्यर्थः । अथवा 15 भावस्यं सत्ताया एते प्रकाराः। सत्तैवानेकक्रियात्मिका साधनसम्बन्धादवसीयमानसाध्यरूपा जन्मादिरूपतयाऽवभासते।" इति प्रदीपे कैयटः ॥२ "भावः स्वभावेऽभिप्राये, चेष्टासत्तात्मजन्मसु । क्रियालीलापदार्थेषु, बुधजन्तुविभूतिषु ।।" इति विश्वप्रकाशे वान्तवर्गे १४ श्लोकः ॥ ३ वाायणयः॥
४ एषां स्वरूपं वाक्यपदीये क्रियासमुद्देशे २६ श्लोकसत्कहेलाराजकृतप्रकीर्णकप्रकाशाख्यव्याख्यागतं यथा"जन्म केनचिद् धर्मेणाविर्भावः। तत्र सव्यापार पूर्वोत्तरावस्थात्यागावाप्स्योरन्तराले वर्तमानं जायते इत्यभिधीयते 120 वस्त्वात्मलाभोन्मुखं समासादितरूपं तु सव्यापारमिवास्तीत्याख्यातपदेनाभिधीयत इत्यस्तित्वमात्मलाभपर्यायमाविर्भावरूपस्य जन्मन एवोत्तरोऽवस्थाविशेषः । तथा च निरुक्तकारः 'जायत इति पूर्वभावस्यादिमाचष्टे' इत्याह । पूर्वभावस्य विपरिणामादेर्व्यावहारिकात् प्रथमस्यास्तित्वस्यादिर्जन्म इत्यर्थः। तथास्तीत्युत्पन्नस्य सत्त्वस्यावधारणमाचष्टे इत्युत्पन्नस्य सत्त्वस्येति जन्मोत्तरकालतामेवाभिव्यनक्ति । अवधारणं निश्चयः । अस्त्यात्मानं भावयति । अस्याश्च भाव्यमानायाः सत्तायाः सन्तानेन प्रवृत्तेः पूर्वोत्तरक्षणनिरोधोपजनाभ्यां सङ्ग्रहः । यावच्च सदृशसन्तानप्रवाहस्तावदलक्षितविवेको भावोऽस्तीत्य-25 वधारणार्थमभिधीयते । अस्त्यात्मानं बिभर्येव न ध्वंसत इत्यर्थः । विसदृशसन्तानोपजननेऽथमेदेन विपरिणमत इति व्यपदिश्यते तत्त्वादप्रच्युतं वस्तु । यदाह निरुक्तकार:-'विपरिणमत इत्यप्रच्यवमानस्य तत्त्वाद् विकारमाचष्टे' इति । अत्रैवोपचयविवक्षायां वर्धत इति । यदाह निरुक्तकृत-वर्धत इति स्वाङ्गाभ्युच्चयं संयोगिनां पदार्थानामाचष्टे' इति । वर्धते शरीरेण, वर्धते विज(च)येन इति । अपचयविवक्षायां तु पूर्वमपक्षीयत इति तदनन्तरं विनश्यतीति तिरोभावामिधानमवस्थाद्वयेन । यदाह स एव-'अपक्षीयत इति स्वाङ्गापचयं संयोगिनामर्थानां वाचष्टे, विन-30 श्यतीति पूर्वभावस्यान्तमाचष्टे" इति। विशेषार्थिना निरुकभाष्यं विलोकनीयम् ॥
५ यथा च वा० ॥ ६ "प्रायोवादोऽयम् । अन्यथा 'उष्ट्रासिका आस्यन्ते हतशायिकाः शय्यन्ते' इति भाष्ये धात्वर्थनिर्देशे ण्वुलि कृदभिहितो भावो द्रव्यवत्प्रकाशते इति आसिकाः शायिकाः इत्यत्र बहुवचनसिद्धावपि आस्यन्ते प्राप्यन्ते इयत्र तम्न सिध्यत" इति तत्वबोधिन्याम् भावकर्मप्रक्रियाव्याख्याने ॥ ७ कर्तृत्वेऽपि सं१ मं२ ॥
35