________________
४१५ ] धातुपारायणे चुरादयः (९)
बहुलमेत निदर्शनम् , यदेतद् भवत्यादिधातुपरिगणनं तदाहुल्येन निदर्शनत्वेन ज्ञेयम् । तेनाऽत्रापठिता अपि क्लविप्रभृतयो लौकिकाः, स्तम्भूप्रभृतयः सौत्राः, चुलुम्पादयश्च वाक्यकरणीया धातव उदाहार्याः । वर्धते हि धातुगणः, यल्लक्ष्यम् ॥
मिलन्त्याशासु जोमूता, विक्लवन्ते दिवि ग्रहाः । उपक्षपयति प्रावृट्, क्षीयन्ते कामिविग्रहाः ॥
इत्यादि । मुसलक्षेपहुङ्कार स्तोभैः कलमखण्डिनि । कुचविष्कम्भमुत्तभ्ननिस्कुभ्नातीव ते स्मरः ।। 'नीपानन्दोलयन्नेष, प्रेड्डोलयति मे मनः । पवनो विजयन्नाशा, ममाशामुच्चुलुम्पति ॥ तावत् खरः प्रखरमुल्ललयांचकार ॥
(शिशुपाल० ५७) यद्वा भूवादिगणाष्टकोक्ताः स्वार्थणिजन्ता अपि बहुलं भवन्ति । चुरादिपाठस्तु निदर्शनार्थः, यदाहुः -
निवृत्तप्रेषणाद्धातोः, प्राकृतेथें णिजिष्यते ॥ 'लक्ष्यम् :
___ 'रामो राज्यमकारयन्' [ रामा० यु० १२८।१०५] । अकरोदित्यर्थः । रजयति वस्त्रम्. रजति इत्यर्थः । मेदयति कृत्यान् , भिनत्ति इत्यर्थः । तापयति, वाचयति, वाहयति, घातयति; तपति, वक्ति, वहति, हन्तीत्यर्थः । यद्वा प्रयोज्यव्यापारेऽपि प्रयोक्लव्यापाराऽनुप्रवेशो णिगं विनाऽपि बुद्धयाऽऽरोपाद् बहुलं भवति ॥
' जजान गर्भ मघवा' । इन्द्रः अजीजनत् इत्यर्थः । 'एकं द्वादशधा जज्ञे'। जनितम् इत्यर्थः । षभिहलैः कृषति, कर्षयतीत्यर्थः ॥
१. नयनान्दों' इति क्षी. त. पृ. ३२२ ॥ २. विशेषार्थिना द्र० बृहवृत्ति: ३३८८ ॥ ३. जजान गर्भमहिमानमिन्द्रः (अथर्व० ३।१०।१२) इति क्षीरतरङ्गिण्याम् [पृ. ३२२]॥